Site icon Stotra Nidhi

Sri Dakshinamurthy Nakshatramala Stotram – श्री दक्षिणास्य नक्षत्रमाला स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

श्रीकण्ठमिन्द्वर्भकभासिचूडं
श्रीज्ञानदानव्रतबद्धदीक्षम् ।
श्रीशाम्बुजन्मप्रभवादिपूज्यं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १ ॥

हरन्तमानम्रजनानुतापं
हयेभवक्त्रेडितपादपद्मम् ।
हृदा मुनीन्द्रैः परिचिन्त्यमानं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २ ॥

हस्ताब्जराजद्वरपुस्तमुद्रा-
-मुक्ताक्षमालामृतपूर्णकुम्भम् ।
हरिद्धवाकाङ्क्षितपादसेवं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ३ ॥

हंसाग्निचन्द्रेक्षणमन्धकारि-
-माकारनिर्धूतमनोजगर्वम् ।
हृतादिमाज्ञानमगोद्भवेशं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ४ ॥

हत्वा पुरा कालमखर्वगर्वं
मृकण्डुसूनोः परिरक्षणं यः ।
चकार कारुण्यवशात्तमेनं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ५ ॥

हृत्वा तमः सत्वरमेव हार्दं
दत्वा च बोधं परमार्थसंस्थम् ।
मोक्षं ददात्याशु नताय यस्तं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ६ ॥

हसन्मुखाम्भोरुहमिन्दुकुन्द-
-नीकाशदन्तावलिशोभमानम् ।
रदाम्बराधःकृतपक्वबिम्बं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ७ ॥

हेलालवान्निर्मितविश्वबृन्दं
बालारुणाभाङ्घ्रियुगं दयालुम् ।
पश्यन्तमुत्सङ्गगतं षडास्यं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ८ ॥

ह्रीमान्भवेद्देवगुरुर्यदीय-
-पादाब्जसंसेवकलोकवाचा ।
तं दिव्यवाग्दानधुरीणमाशु
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ९ ॥

हारायिताहीशमनङ्गगर्व-
-भङ्गप्रगल्भान्प्रणतानशेषान् ।
कुर्वन्तमिष्टप्रदमष्टमूर्तिं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १० ॥

हरिर्जहाराचलकन्यका च
यद्वर्ष्मणोऽर्धं तपसा हि पूर्वम् ।
अतोऽशरीरं तमशेषसंस्थं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ ११ ॥

हन्यादशेषं कलुषं यदङ्घ्रि-
-पूजा प्रदद्यादपि सर्वमिष्टम् ।
तं पार्वतीमानसराजहंसं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १२ ॥

हठादियोगान् प्रविधाय चित्त-
-स्थैर्यं प्रपद्याङ्घ्रियुगं यदीयम् ।
ध्यायन्ति योगिप्रवरा मुदा तं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १३ ॥

हितोपदेष्टा दयया नतानां
निसर्गया यो यमिनां जवाद्धि ।
न्यग्रोधमूलैकनिकेतनं तं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १४ ॥

हतारिषट्कैरनुभूयमानं
नितान्तमानन्दघनस्वरूपम् ।
नतापराधान्सहमानमीशं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १५ ॥

हित्वा धनापत्यकलत्रबन्धून्
दत्त्वाभयं भूतततेर्द्विजाग्र्याः ।
यं यान्ति लोके शरणं सदा तं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १६ ॥

हृदम्बुजाते विनिवेश्य चित्तं
निरुध्य चक्षुःप्रमुखाक्षवर्गम् ।
ध्यायन्ति यं शैलसुतायुतं तं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १७ ॥

हासप्रभानिर्जितभाभिमानं
प्रासार्थजुष्टां कवितां दिशन्तम् ।
नतोत्तमाङ्गेषु करं दधानं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १८ ॥

हैय्यङ्गवीनं हृदयम्रदिम्ना
स्वरेण हंसं चरणेन पद्मम् ।
हसन्तमंसाग्रलसज्जटालं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ १९ ॥

हरेर्विधेश्चैव विवादशान्त्यै
लिङ्गात्मना यः प्रबभूव पूर्वम् ।
तमादिमध्यान्तविहीनरूपं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २० ॥

हुताशनादित्यमहीप्रमुख्या
यस्याष्टमूर्तीर्निजगाद वेदः ।
तं सर्वलोकावनसक्तचित्तं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २१ ॥

हस्त्यन्तलक्ष्मीमपि दीनवर्यः
प्राप्नोति यत्पादसरोजनत्या ।
तं कल्पवल्लीमदभङ्गदक्षं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २२ ॥

हयाग्र्यमारुह्य गजोत्तमं वा
समेत्य यत्पादयुगार्चकाय ।
यच्छन्ति राज्यं धरणीधवास्तं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २३ ॥

हवींषि सञ्जुह्वति भूसुराग्र्याः
कालेषु वह्नौ यदनुग्रहार्थम् ।
कर्मानुगुण्येन फलप्रदं तं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २४ ॥

हेत्या ललाटस्थशुचेर्महाघ-
-वनं दहन्तं तरसैव मोदात् ।
कुर्वन्तमारान्नतचित्तशुद्धिं
श्रीदक्षिणास्यं हदि भावयेऽहम् ॥ २५ ॥

हेमाश्मनोः साम्यमतिं करोति
यत्पादपाथोरुहसक्तचित्तः ।
वैराग्यदानैकधुरन्धरं तं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २६ ॥

हालास्यगोकर्णमुखेषु दिव्य-
-क्षेत्रेषु वासं कृपया करोति ।
यः पादनम्रोद्धतये सदा तं
श्रीदक्षिणास्यं हृदि भावयेऽहम् ॥ २७ ॥

हंसेन केनापि परादिनेमां
कृतां प्रयत्नादतिमोदतश्च ।
नक्षत्रमालां दधतां नराणां
कण्ठे भविष्यत्यचिरात्पराप्तिः ॥ २८ ॥

इति श्रीजगद्गुरु श्रीसच्चिदानन्द शिवाभिनव नृसिंह भारती स्वामिभिः विरचितं श्री दक्षिणास्य नक्षत्रमाला स्तोत्रम् ।


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments