Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं भूर्भुव॒स्सुव॑: । ओं नं ।
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
संवर्ताग्नितटित्प्रदीप्तकनकप्रस्पर्धितेजोमयं
गम्भीरध्वनिमिश्रितोग्रदहनप्रोद्भासिताम्राधरम् । [सामवेदजनकं, सुन्दरम्]
अर्धेन्दुद्युतिलोलपिङ्गलजटाभारप्रबद्धोरगं
वन्दे सिद्धसुरासुरेंद्रनमितं पूर्वं मुखं शूलिनः ॥
ओं अं कं खं गं घं ङं आं ओं ।
ओं नमो भगवते॑ रुद्रा॒य । नं ओं ।
पूर्वमुखाय नमः ॥ १ ॥
// तत्, पुरुषाय, विद्महे, महा-देवाय, धीमहि, तत्, नः, रुद्रः, प्रचोदयात् //
ओं भूर्भुव॒स्सुव॑: । ओं मं ।
अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥
कालाभ्रभ्रमराञ्जनद्युतिनिभं व्यावृत्तपिङ्गेक्षणं
कर्णोद्भासितभोगिमस्तकमणि प्रोद्भिन्नदंष्ट्राङ्कुरम् ।
सर्पप्रोतकपालशुक्तिशकल व्याकीर्णसंचारगं [सच्छेखरं]
वन्दे दक्षिणमीश्वरस्य कुटिलभ्रूभङ्गरौद्रं मुखम् ॥
ओं इं चं छं जं झं ञं ईं ओं ।
ओं नमो भगवते॑ रुद्रा॒य । मं ओं ।
दक्षिणमुखाय नमः ॥ २ ॥
// अघोरेभ्यः, अथ, घोरेभ्यः, घोर-घोरतरेभ्यः, सर्वेभ्यः, सर्व-शर्वेभ्यः, नमः, ते, अस्तु, रुद्र-रूपेभ्यः //
ओं भूर्भुव॒स्सुव॑: । ओं शिं ।
स॒द्यो जा॒तं प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नम॑: ।
भ॒वेभ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नम॑: ॥
प्रालेयाचलचन्द्रकुन्दधवलं गोक्षीरफेनप्रभं [मिंदु]
भस्माभ्यक्तमनङ्गदेहदहन ज्वालावलीलोचनम् ।
ब्रह्मेन्द्रादिमरुद्गणैः स्तुतिपरैरभ्यर्चितं योगिभिः [पदै]
वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥
ओं उं टं ठं डं ढं णं ऊं ओं ।
ओं नमो भगवते॑ रुद्रा॒य । शिं ओं ।
पश्चिममुखाय नमः ॥ ३ ॥
// सद्यः-जातं, प्रपद्यामि, सद्यः-जाताय, वै, नमः, नमः, भवे, भवे, न-अतिभवे, भवस्व, माम्, भव-उद्भवाय, नमः //
ओं भूर्भुव॒स्सुव॑: । ओं वां ।
वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नम॑: श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नम॒: काला॑य॒ नम॒: कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒: सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नम॑: ॥
गौरं कुङ्कुमपङ्किलं सुतिलकं व्यापाण्डुगण्डस्थलं
भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ।
स्निग्धं बिम्बफलाधरप्रहसितं नीलालकालङ्कृतं
वन्दे पूर्णशशाङ्कमण्डलनिभं वक्त्रं हरस्योत्तरम् ॥
ओं एं तं थं दं धं नं ऐं ओं ।
ओं नमो भगवते॑ रुद्रा॒य । वां ओं ।
उत्तरमुखाय नमः ॥ ४ ॥
// वामदेवाय, नमः, ज्येष्ठाय, नमः, श्रेष्ठाय, नमः, रुद्राय, नमः, कालाय, नमः, कल-विकरणाय, नमः, बल-विकरणाय, नमः, बलाय, नमः, बल-प्रमथनाय, नमः, सर्वभूत-दमनाय, नमः, मनोन्मनाय, नमः //
ओं भूर्भुव॒स्सुव॑: । ओं यं ।
ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥
व्यक्ताव्यक्तगुणेतरं सुविमलं षट्त्रिंशतत्त्वात्मकं [परतरं]
तस्मादुत्तरतत्त्वमक्षरमिति ध्येयं सदा योगिभिः ॥
वन्दे तामसवर्जितं त्रिनयनं सूक्ष्मातिसूक्ष्मात्परं
शान्तं पञ्चममीश्वरस्य वदनं खव्यापितेजोमयम् ॥
ओं ओं पं फं बं भं मं औं ओं ।
ओं नमो भगवते॑ रुद्रा॒य । यं ओं ।
ऊर्ध्वमुखाय नमः ॥ ५ ॥
// ईशानः, सर्व-विद्यानां, ईश्वरः, सर्व-भूतानां, ब्रह्म-अधिपति, ब्रह्मणः-अधिपतिः, ब्रह्मा, शिवः, मे, अस्तु, सदा-शिवों //
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.