Vignana Nauka Ashtakam – विज्ञाननौकाष्टकम्


तपोयज्ञदानादिभिश्शुद्धबुद्धि-
र्विरक्तोग्रजातिः परे तुच्छ बुद्ध्य़ा ।
परित्यज्य सर्वं यदाप्नोति तत्त्वं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ १ ॥

दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं
समाराध्य भक्त्या विचार्य स्वरूपम् ।
यदाप्नोति तत्त्वं निदिध्यस्य विद्वान्
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ २ ॥

यदानन्दरूपप्रकाशस्वरूपं
निरस्त प्रपञ्चं परिच्छेद शून्यं ।
अहं ब्रह्मवृत्तैकगम्यं तुरीयं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ३ ॥

यदज्ञानतो भाति विश्वं समस्तं
प्रणष्टं च सद्यो यदात्मप्रबोधे ।
मनोवागतीतं विशुद्धं विमुक्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ४ ॥

अनन्तं विभुं निर्विकल्पं निरीहं
शिवं सङ्गहीनं यदोङ्कारगम्यम् ।
निराकारमत्युज्ज्वलं मृत्युहीनं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ५ ॥

निषेधे कृते नेति नेतीति वाक्यै-
स्समाधिस्थितानां यदा भाति पूर्णम् ।
अवस्थात्रयातीतमद्वैतमेकं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ६ ॥

यदानन्दलेशैस्सदानन्दि विश्वं
यदा भाति चान्यत्तथा भाति सर्वम् ।
यदालोचने हेयमन्यत्समस्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ७ ॥

यदानन्दसिन्धौ निमग्नः पुमान्स्या-
दविद्याविलासस्समस्त प्रपञ्चः ।
तदा न स्फुरत्यद्भुतं यन्निमित्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ८ ॥

स्वरूपानुसन्धानरूपस्तुतिं यः
पठेदादराद्भक्तिभावो मनुष्यः ।
शृणोतीह वा नित्यमुद्युक्त चित्तो
भवेद्विष्णुरत्रैव वेद प्रमाणात् ॥ ९ ॥

विज्ञाननौकां परिगृह्य कश्चि-
त्तरेद्यदज्ञानमयं भवाब्धिम् ।
ज्ञानाम्भसा यः परिहृत्य तृष्णां
विष्णोः पदं याति स एव धन्यः ॥ १० ॥

इति श्रीमत्परमहंसपरिव्राजक श्रीमच्छङ्करभगवत्पादाचार्य विरचितं विज्ञाननौकाष्टकम् ॥


इतर विविध स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed