Sundarakanda Sarga (Chapter) 29 – सुन्दरकाण्ड एकोनत्रिंशः सर्गः (२९)


॥ शुभनिमित्तानि ॥

तथागतां तां व्यथितामनिन्दितां
व्यपेतहर्षां परिदीनमानसाम् ।
शुभां निमित्तानि शुभानि भेजिरे
नरं श्रिया जुष्टमिवोपजीविनः ॥ १ ॥

तस्याः शुभं वाममरालपक्ष्म-
-राजीवृतं कृष्णविशालशुक्लम् ।
प्रास्पन्दतैकं नयनं सुकेश्या
मीनाहतं पद्ममिवाभिताम्रम् ॥ २ ॥

भुजश्च चार्वञ्चितपीनवृत्तः
परार्ध्यकालागरुचन्दनार्हः ।
अनुत्तमेनाध्युषितः प्रियेण
चिरेण वामः समवेपताशु ॥ ३ ॥

गजेन्द्रहस्तप्रतिमश्च पीन-
-स्तयोर्द्वयोः संहतयोः सुजातः ।
प्रस्पन्दमानः पुनरूरुरस्या
रामं पुरस्तात्स्थितमाचचक्षे ॥ ४ ॥

शुभं पुनर्हेमसमानवर्ण-
-मीषद्रजोध्वस्तमिवामलाक्ष्याः ।
वासः स्थितायाः शिखराग्रदत्याः
किञ्चित्परिस्रंसत चारुगात्र्याः ॥ ५ ॥

एतैर्निमित्तैरपरैश्च सुभ्रूः
सम्बोधिता प्रागपि साधु सिद्धैः ।
वातातपक्लान्तमिव प्रनष्टं
वर्षेण बीजं प्रतिसञ्जहर्ष ॥ ६ ॥

तस्याः पुनर्बिम्बफलाधरोष्ठं
स्वक्षिभ्रुकेशान्तमरालपक्ष्म ।
वक्त्रं बभासे सितशुक्लदंष्ट्रं
राहोर्मुखाच्चन्द्र इव प्रमुक्तः ॥ ७ ॥

सा वीतशोका व्यपनीततन्द्री
शान्तज्वरा हर्षविवृद्धसत्त्वा ।
अशोभतार्या वदनेन शुक्ले
शीतांशुना रात्रिरिवोदितेन ॥ ८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥

सुन्दरकाण्ड त्रिंशः सर्गः (३०)>>


सम्पूर्ण वाल्मीकि सुन्दरकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed