Sri Subrahmanya Ashtakam (Karavalamba Stotram) – श्री सुब्रह्मण्य अष्टकम् (करावलम्ब स्तोत्रम्)


हे स्वामिनाथ करुणाकर दीनबन्धो
श्रीपार्वतीशमुखपङ्कजपद्मबन्धो ।
श्रीशादिदेवगणपूजितपादपद्म
वल्लीशनाथ मम देहि करावलम्बम् ॥ १ ॥

देवादिदेवसुत देवगणाधिनाथ [नुत]
देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद ।
देवर्षिनारदमुनीन्द्रसुगीतकीर्ते
वल्लीशनाथ मम देहि करावलम्बम् ॥ २ ॥

नित्यान्नदाननिरताखिलरोगहारिन्
तस्मात्प्रदानपरिपूरितभक्तकाम । [भाग्य]
श्रुत्यागमप्रणववाच्यनिजस्वरूप
वल्लीशनाथ मम देहि करावलम्बम् ॥ ३ ॥

क्रौञ्चासुरेन्द्रपरिखण्डनशक्तिशूल-
-पाशादिशस्त्रपरिमण्डितदिव्यपाणे । [चापादि]
श्रीकुण्डलीशधरतुण्डशिखीन्द्रवाह
वल्लीशनाथ मम देहि करावलम्बम् ॥ ४ ॥

देवादिदेव रथमण्डलमध्यवेद्य
देवेन्द्रपीठनगरं दृढचापहस्तम् ।
शूरं निहत्य सुरकोटिभिरीड्यमान
वल्लीशनाथ मम देहि करावलम्बम् ॥ ५ ॥

हीरादिरत्नमणियुक्तकिरीटहार [हारादि]
केयूरकुण्डललसत्कवचाभिरामम् ।
हे वीर तारक जयाऽमरबृन्दवन्द्य
वल्लीशनाथ मम देहि करावलम्बम् ॥ ६ ॥

पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः
पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।
पट्‍टाभिषिक्त हरियुक्त परासनाथ
वल्लीशनाथ मम देहि करावलम्बम् ॥ ७ ॥

श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या
कामादिरोगकलुषीकृतदुष्टचित्तम् ।
सिक्त्वा तु मामवकलाधर कान्तिकान्त्या
वल्लीशनाथ मम देहि करावलम्बम् ॥ ८ ॥

सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः ।
ते सर्वे मुक्तिमायान्ति सुब्रह्मण्य प्रसादतः ॥ ९ ॥

सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतं पापं तत्‍क्षणादेव नश्यति ॥ १० ॥

इति श्री सुब्रह्मण्याष्टकम् ।


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed