Sri Venkateswara Saranagathi Stotram (Saptarshi Kritam) – श्री वेङ्कटेश्वर शरणागति स्तोत्रम् (सप्तर्षि कृतम्)


शेषाचलं समासाद्य कश्यपाद्या महर्षयः ।
वेङ्कटेशं रमानाथं शरणं प्रापुरञ्जसा ॥ १ ॥

कलिसन्तारकं मुख्यं स्तोत्रमेतज्जपेन्नरः ।
सप्तर्षिवाक्प्रसादेन विष्णुस्तस्मै प्रसीदति ॥ २ ॥

कश्यप उवाच –
कादिह्रीमन्तविद्यायाः प्राप्यैव परदेवता ।
कलौ श्रीवेङ्कटेशाख्या तामहं शरणं भजे ॥ ३ ॥

अत्रिरुवाच –
अकारादिक्षकारान्तवर्णैर्यः प्रतिपाद्यते ।
कलौ स वेङ्कटेशाख्यः शरणं मे रमापतिः ॥ ४ ॥

भरद्वाज उवाच –
भगवान् भार्गवीकान्तो भक्ताभीप्सितदायकः ।
भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः ॥ ५ ॥

विश्वामित्र उवाच –
विराड्विष्णुर्विधाता च विश्वविज्ञानविग्रहः ।
विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा ॥ ६ ॥

गौतम उवाच –
गौर्गौरीशप्रियो नित्यं गोविन्दो गोपतिर्विभुः ।
शरणं गौतमस्यास्तु वेङ्कटाद्रिशिरोमणिः ॥ ७ ॥

जमदग्निरुवाच –
जगत्कर्ता जगद्भर्ता जगद्धर्ता जगन्मयः ।
जमदग्नेः प्रपन्नस्य जीवेशो वेङ्कटेश्वरः ॥ ८ ॥

वसिष्ठ उवाच –
वस्तुविज्ञानमात्रं यन्निर्विशेषं सुखं च सत् ।
तद्ब्रह्मैवाहमस्मीति वेङ्कटेशं भजे सदा ॥ ९ ॥

सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः ।
सोऽभयं प्राप्नुयात्सत्यं सर्वत्र विजयी भवेत् ॥ १० ॥

इति सप्तर्षिभिः कृतं श्री वेङ्कटेश्वर शरणागति स्तोत्रम् ।


इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed