Sri Venkateshwara Vajra Kavacha Stotram – श्री वेङ्कटेश्वर वज्रकवच स्तोत्रम्


मार्कण्डेय उवाच ।
नारायणं परब्रह्म सर्वकारणकारणम् ।
प्रपद्ये वेङ्कटेशाख्यं तदेव कवचं मम ॥ १ ॥

सहस्रशीर्षा पुरुषो वेङ्कटेशश्शिरोऽवतु ।
प्राणेशः प्राणनिलयः प्राणान् रक्षतु मे हरिः ॥ २ ॥

आकाशराट्सुतानाथ आत्मानं मे सदावतु ।
देवदेवोत्तमो पायाद्देहं मे वेङ्कटेश्वरः ॥ ३ ॥

सर्वत्र सर्वकालेषु मङ्गाम्बाजानिरीश्वरः ।
पालयेन्मां सदा कर्मसाफल्यं नः प्रयच्छतु ॥ ४ ॥

य एतद्वज्रकवचमभेद्यं वेङ्कटेशितुः ।
सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः ॥ ५ ॥

इति मार्कण्डेय कृत श्री वेङ्कटेश्वर वज्रकवच स्तोत्रम् ।


इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed