Sri Venkatesha Ashtakam – श्री वेङ्कटेश अष्टकम्


वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः ।
सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥ १ ॥

जनार्दनः पद्मनाभो वेङ्कटाचलवासिनः ।
सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ॥ २ ॥

गोविन्दो गोपतिः कृष्णः केशवो गरुडध्वजः ।
वराहो वामनश्चैव नारायण अधोक्षजः ॥ ३ ॥

श्रीधरः पुण्डरीकाक्षः सर्वदेवस्तुतो हरिः ।
श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥ ४ ॥

रमानाथो महीभर्ता भूधरः पुरुषोत्तमः ।
चोलपुत्रप्रियः शान्तो ब्रह्मादीनां वरप्रदः ॥ ५ ॥

श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः ।
श्रीरामो रामभद्रश्च भवबन्धैकमोचकः ॥ ६ ॥

भूतावासो गिरिवासः श्रीनिवासः श्रियः पतिः ।
अच्युतानन्त गोविन्दो विष्णुर्वेङ्कटनायकः ॥ ७ ॥

सर्वदेवैकशरणं सर्वदेवैकदैवतम् ।
समस्तदेवकवचं सर्वदेवशिखामणिः ॥ ८ ॥

इतीदं कीर्तितं यस्य विष्णोरमिततेजसः ।
त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥ ९ ॥

राजद्वारे पठेद्घोरे सङ्ग्रामे रिपुसङ्कटे ।
भूतसर्पपिशाचादिभयं नास्ति कदाचन ॥ १० ॥

अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् ।
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ ११ ॥

यद्यदिष्टतमं लोके तत्तत्प्राप्नोत्यसंशयः ।
ऐश्वर्यं राजसम्मानं भुक्तिमुक्तिफलप्रदम् ॥ १२ ॥

विष्णोर्लोकैकसोपानं सर्वदुःखैकनाशनम् ।
सर्वैश्वर्यप्रदं नॄणां सर्वमङ्गलकारकम् ॥ १३ ॥

मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम् ।
स्वामिपुष्करिणीतीरे रमया सह मोदते ॥ १४ ॥

कल्याणाद्भुतगात्राय कामितार्थप्रदायिने ।
श्रीमद्वेङ्कटनाथाय श्रीनिवासाय ते नमः ॥ १५ ॥

इति श्री ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे वेङ्कटगिरिमाहात्म्ये श्री वेङ्कटेश अष्टकम् ।


इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed