Sri Surya Stotram- श्री सूर्य स्तोत्रम्

ध्यानम् ।
ध्यायेत्सूर्यमनन्तकोटिकिरणं तेजोमयं भास्करं ।
भक्तानामभयप्रदं दिनकरं ज्योतिर्मयं शङ्करम् ॥

आदित्यं जगदीशमच्युतमजं त्रैलोक्यचूडामणिं ।
भक्ताभीष्टवरप्रदं दिनमणिं मार्ताण्डमाद्यं शुभम् ॥ १ ॥

कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः ।
जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ २ ॥

ब्रह्मस्वरूप उदये मध्याह्ने तु महेश्वरः ।
अस्तकाले स्वयं विष्णुः त्रयीमूर्तिर्दिवाकरः ॥ ३ ॥

एकचक्ररथो यस्य दिव्यः कनकभूषितः ।
सोऽयं भवतु नः प्रीतः पद्महस्तो दिवाकरः ॥ ४ ॥

पद्महस्तः परञ्ज्योतिः परेशाय नमो नमः ।
अण्डयोने महासाक्षिन् आदित्याय नमो नमः ॥ ५ ॥

कमलासन देवेश भानुमूर्ते नमो नमः ।
धर्ममूर्ते दयामूर्ते तत्त्वमूर्ते नमो नमः ॥ ६ ॥

सकलेशाय सूर्याय छायेशाय नमो नमः ।
क्षयापस्मारगुल्मादिदुर्धोषव्याधिनाशनम् ॥ ७ ॥

सर्वज्वरहरं चैव कुक्षिरोगनिवारणं ।
एतत् स्तोत्रं शिव प्रोक्तं सर्वसिद्धिकरं परम् ॥ ८ ॥

सर्वसम्पत्करं चैव सर्वाभीष्टप्रदायकम् ॥ ९ ॥

इति सूर्यस्तोत्रं सम्पूर्णं ।

Facebook Comments

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Download Stotra Nidhi mobile app