Sri Surya Panjara Stotram – श्री सूर्य पञ्जर स्तोत्रम्


उदयगिरिमुपेतं भास्करं पद्महस्तं
सकलभुवननेत्रं नूत्नरत्नोपमेयम् ।
तिमिरकरिमृगेन्द्रं बोधकं पद्मिनीनां
सुरवरमभिवन्द्यं सुन्दरं विश्वमूर्तिम् ॥ १ ॥

ओं शिखायां भास्कराय नमः ।
ललाटे सूर्याय नमः ।
भ्रूमध्ये भानवे नमः ।
कर्णयोः दिवाकराय नमः ।
नासिकायां भानवे नमः ।
नेत्रयोः सवित्रे नमः ।
मुखे भास्कराय नमः ।
ओष्ठयोः पर्जन्याय नमः ।
पादयोः प्रभाकराय नमः ॥ २ ॥

ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ।
ओं हंसां हंसीं हंसूं हंसैं हंसौं हंसः ॥ ३ ॥

ओं सत्यतेजोज्ज्वलज्वालामालिने मणिकुम्भाय हुं फट् स्वाहा ।
ओं स्थितिरूपककारणाय पूर्वादिग्भागे मां रक्षतु ॥ ४ ॥

ओं ब्रह्मतेजोज्ज्वलज्वालामालिने मणिकुम्भाय हुं फट् स्वाहा ।
ओं तारकब्रह्मरूपाय परयन्त्र-परतन्त्र-परमन्त्र-सर्वोपद्रवनाशनार्थं दक्षिणदिग्भागे मां रक्षतु ॥ ५ ॥

ओं विष्णुतेजोज्ज्वलज्वालामालिने मणिकुम्भाय हुं फट् स्वाहा ।
ओं प्रचण्डमार्ताण्ड उग्रतेजोरूपिणे मुकुरवर्णाय तेजोवर्णाय मम सर्वराजस्त्रीपुरुष-वशीकरणार्थं पश्चिमदिग्भागे मां रक्षतु ॥ ६ ॥

ओं रुद्रतेजोज्ज्वलज्वालामालिने मणिकुम्भाय हुं फट् स्वाहा ।
ओं भवाय रुद्ररूपिणे उत्तरदिग्भागे सर्वमृत्योपशमनार्थं मां रक्षतु ॥ ७ ॥

ओं अग्नितेजोज्ज्वलज्वालामालिने मणिकुम्भाय हुं फट् स्वाहा ।
ओं तिमिरतेजसे सर्वरोगनिवारणाय ऊर्ध्वदिग्भागे मां रक्षतु ॥ ८ ॥

ओं सर्वतेजोज्ज्वलज्वालामालिने मणिकुम्भाय हुं फट् स्वाहा ।
ओं नमस्कारप्रियाय श्रीसूर्यनारायणाय अधोदिग्भागे सर्वाभीष्टसिद्ध्यर्थं मां रक्षतु ॥ ९ ॥

मार्ताण्डाय नमः भानवे नमः
हंसाय नमः सूर्याय नमः
दिवाकराय नमः तपनाय नमः
भास्कराय नमः मां रक्षतु ॥ १० ॥

मित्र-रवि-सूर्य-भानु-खगपूष-हिरण्यगर्भ-
मरीच्यादित्य-सवित्रर्क-भास्करेभ्यो नमः शिरस्थाने मां रक्षतु ॥ ११ ॥

सूर्यादि नवग्रहेभ्यो नमः ललाटस्थाने मां रक्षतु ॥ १२ ॥

धराय नमः धृवाय नमः
सोमाय नमः अथर्वाय नमः
अनिलाय नमः अनलाय नमः
प्रत्यूषाय नमः प्रतापाय नमः
मूर्ध्निस्थाने मां रक्षतु ॥ १३ ॥

वीरभद्राय नमः गिरीशाय नमः
शम्भवे नमः अजैकपदे नमः
अहिर्बुध्ने नमः पिनाकिने नमः
भुवनाधीश्वराय नमः दिशान्तपतये नमः
पशुपतये नमः स्थाणवे नमः
भवाय नमः ललाटस्थाने मां रक्षतु ॥ १४ ॥

धात्रे नमः अंशुमते नमः
पूष्णे नमः पर्जन्याय नमः
विष्णवे नमः नेत्रस्थाने मां रक्षतु ॥ १५ ॥

अरुणाय नमः सूर्याय नमः
इन्द्राय नमः रवये नमः
सुवर्णरेतसे नमः यमाय नमः
दिवाकराय नमः कर्णस्थाने मां रक्षतु ॥ १६ ॥

असिताङ्गभैरवाय नमः रुरुभैरवाय नमः
चण्डभैरवाय नमः क्रोधभैरवाय नमः
उन्मत्तभैरवाय नमः भीषणभैरवाय नमः
कालभैरवाय नमः संहारभैरवाय नमः
मुखस्थाने मां रक्षतु ॥ १७ ॥

ब्राह्म्यै नमः माहेश्वर्यै नमः
कौमार्यै नमः वैष्णव्यै नमः
वाराह्यै नमः इन्द्राण्यै नमः
चामुण्डायै नमः कण्ठस्थाने मां रक्षतु ॥ १८ ॥

इन्द्राय नमः अग्नये नमः
यमाय नमः निर्‍ऋतये नमः
वरुणाय नमः वायवे नमः
कुबेराय नमः ईशानाय नमः
बाहुस्थाने मां रक्षतु ॥ १९ ॥

मेषादिद्वादशराशिभ्यो नमः हृदयस्थाने मां रक्षतु ॥ २० ॥

वज्रायुधाय नमः शक्त्यायुधाय नमः
दण्डायुधाय नमः खड्गायुधाय नमः
पाशायुधाय नमः अङ्कुशायुधाय नमः
गदायुधाय नमः त्रिशूलायुधाय नमः
पद्मायुधाय नमः चक्रायुधाय नमः
कटिस्थाने मां रक्षतु ॥ २१ ॥

मित्राय नमः दक्षिणहस्ते मां रक्षतु ।
रवये नमः वामहस्ते मां रक्षतु ।
सूर्याय नमः हृदये मां रक्षतु ।
भानवे नमः मूर्ध्निस्थाने मां रक्षतु ।
खगाय नमः दक्षिणपादे मां रक्षतु ।
पूष्णे नमः वामपादे मां रक्षतु ।
हिरण्यगर्भाय नमः नाभिस्थाने मां रक्षतु ।
मरीचये नमः कण्ठस्थाने मां रक्षतु ।
आदित्याय नमः दक्षिणचक्षुषि मां रक्षतु ।
सवित्रे नमः वामचक्षुषि मां रक्षतु ।
भास्कराय नमः हस्ते मां रक्षतु ।
अर्काय नमः कवचे मां रक्षतु ॥ २२

ओं भास्कराय विद्महे महद्द्युतिकराय धीमहि । तन्नो आदित्यः प्रचोदयात् ॥ २३ ॥

इति श्री सूर्य पञ्जर स्तोत्रम् ॥


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed