Sri Surya Namaskar Mantra with Names – श्री सूर्य नमस्कार मन्त्र


ध्यानम् –
ध्येयः सदा सवितृमण्डलमध्यवर्ती
नारायणः सरसिजासन सन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥

नमस्कार मन्त्राः –
ओं ह्रां मित्राय नमः । १
ओं ह्रीं रवये नमः । २
ओं ह्रूं सूर्याय नमः । ३
ओं ह्रैं भानवे नमः । ४
ओं ह्रौं खगाय नमः । ५
ओं ह्रः पूष्णे नमः । ६
ओं ह्रां हिरण्यगर्भाय नमः । ७
ओं ह्रीं मरीचये नमः । ८
ओं ह्रूं आदित्याय नमः । ९
ओं ह्रैं सवित्रे नमः । १०
ओं ह्रौं अर्काय नमः । ११
ओं ह्रः भास्कराय नमः । १२

ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः श्रीसवितृसूर्यनारायणाय नमः ॥

फलशृतिः –
आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने ।
आयुः प्रज्ञां बलं वीर्यं तेजस्तेषां च जायते ॥


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed