Sri Shyamala Panchasathsvara Varna Malika Stotram – श्री श्यामला पञ्चाशत्स्वर वर्णमालिका स्तोत्रम्


वन्देऽहं वनजेक्षणां वसुमतीं वाग्देवि तां वैष्णवीं
शब्दब्रह्ममयीं शशाङ्कवदनां शातोदरीं शाङ्करीम् ।
षड्बीजां सशिवां समञ्चितपदामाधारचक्रेस्थितां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ १ ॥

बालां भास्करभासमप्रभयुतां भीमेश्वरीं भारतीं
माणिक्याञ्चितहारिणीमभयदां योनिस्थितेयं पदाम् ।
ह्रां ह्रां ह्रीं कमयीं रजस्तमहरीं लम्बीजमोङ्कारिणीं
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ २ ॥

डं ढं णं त थमक्षरीं तव कलान्ताद्याकृतीतुर्यगां
दं धं नं नवकोटिमूर्तिसहितां नादं सबिन्दूकलाम् ।
पं फं मन्त्रफलप्रदां प्रतिपदां नाभौ सचक्रेस्थितां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ३ ॥

कं खं गं घ मयीं गजास्यजननीं गानप्रियामागमीं
चं छं जं झं झण क्वणि घणु घिणू झङ्कारपादां रमाम् ।
ञं टं ठं हृदये स्थितां किणिकिणी नादौ करौ कङ्कणां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ४ ॥

अं आं इं इमयीं इहैव सुखदामीकार उ ऊपमां
ऋं ॠं लुं सहवर्णपीठनिलये लूङ्कार एं ऐं सदा ।
ओं औं अन्नमये अः स्तवनुतामानन्दमानन्दिनीं
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ५ ॥

हं क्षं ब्रह्ममयीं द्विपत्रकमलां भ्रूमध्यपीठेस्थितां
इडापिङ्गलमध्यदेशगमनामिष्टार्थसन्दायिनीम् ।
आरोहप्रतिरोहयन्त्रभरितां साक्षात्सुषुम्ना कलां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ६ ॥

ब्रह्मेशादि समस्त मौनिऋषिभिर्देवैः सदा ध्यायिनीं
ब्रह्मस्थाननिवेशिनीं तव कलां तारं सहस्रांशके ।
खव्यं खव्यमयीं खगेशविनुतां खं रूपिमोङ्कारिणीं
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ७ ॥

चक्राण्ये सतु सप्तमन्तरगते वर्णात्मिके तां श्रियं
नादं बिन्दुकलामयींश्चरहिते निःशब्द निर्व्यापके ।
निर्व्यक्तां च निरञ्जनीं निरवयां श्रीयन्त्रमात्रां परां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ८ ॥

बालामालमनोहरां प्रतिदिनं वाञ्छन्ति वाच्यं पठेत्
वेदे शास्त्र विवादकालसमये स्थित्वा सभामध्यमे ।
पञ्चाशत्स्वरवर्णमालिकमियां जिह्वाग्र संस्था पठे-
-द्धर्मार्थाखिलकामविक्षितकृपाः सिध्यन्ति मोक्षं तथा ॥ ९ ॥

इति श्री श्यामला पञ्चाशत्स्वरवर्णमालिका स्तोत्रम् ।


इतर देवी स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed