Sri Shukra Stotram 1 – श्री शुक्र स्तोत्रम् – १


शुक्रः काव्यः शुक्ररेता शुक्लाम्बरधरः सुधी ।
हिमाभः कुन्दधवलः शुभ्रांशुः शुक्लभूषणः ॥ १ ॥

नीतिज्ञो नीतिकृन्नीतिमार्गगामी ग्रहाधिपः ।
उशना वेदवेदाङ्गपारगः कविरात्मवित् ॥ २ ॥

भार्गवः करुणाः सिन्धुर्ज्ञानगम्यः सुतप्रदः ।
शुक्रस्यैतानि नामानि शुक्रं स्मृत्वा तु यः पठेत् ॥ ३ ॥

आयुर्धनं सुखं पुत्रं लक्ष्मी वसतिमुत्तमाम् ।
विद्यां चैव स्वयं तस्मै शुक्रस्तुष्टो ददाति च ॥ ४ ॥

इति श्रीस्कन्दपुराणे श्री शुक्र स्तोत्रम् ।


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed