Sri Shani Stotram (Dasaratha Kritam) – श्री शनैश्चर स्तोत्रम् (दशरथ कृतम्)


ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम् ।
राजा दशरथः स्तोत्रं सौरेरिदमथाकरोत् ॥ १ ॥

दशरथ उवाच ।
नमः कृष्णाय नीलाय शितिकण्ठनिभाय च ।
नमो नीलमयूखाय नीलोत्पलनिभाय च ॥ २ ॥ [मधूकाय]

नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च ।
नमो विशालनेत्राय शुष्कोदर भयानक ॥ ३ ॥

नमः परुषगात्राय स्थूलरोमाय वै नमः ।
नमो नित्यं क्षुधार्ताय नित्यतप्ताय वै नमः ॥ ४ ॥ [तृप्ताय]

नमः कालाग्निरूपाय कृतान्तक नमोऽस्तु ते ।
नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः ॥ ५ ॥

नमो घोराय रौद्राय भीषणाय करालिने ।
नमस्ते सर्वभक्षाय वलीमुख नमोऽस्तु ते ॥ ६ ॥

सूर्यपुत्र नमस्तेऽस्तु भास्करे भयदायक । [भास्वरो]
अधोदृष्टे नमस्तुभ्यं वपुःश्याम नमोऽस्तु ते ॥ ७ ॥ [संवर्तक]

नमो मन्दगते तुभ्यं निस्त्रिंशाय नमो नमः । [निष्प्रभाय]
तपसा दग्धदेहाय नित्ययोगरताय च ॥ ८ ॥ [ज्ञान]

नमस्ते ज्ञाननेत्राय काश्यपात्मजसूनवे ।
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्‍ क्षणात् ॥ ९ ॥ [क्रुद्धो]

देवासुरमनुष्याश्च पशुपक्षिसरीसृपाः ।
त्वया विलोकिताः सौरे दैन्यमाशु व्रजन्ति च ॥ १० ॥

ब्रह्मा शक्रो यमश्चैव ऋषयः सप्ततारकाः ।
राज्यभ्रष्टाश्च ते सर्वे तव दृष्ट्या विलोकिताः ॥ ११ ॥

देशा नगरग्रामाश्च द्वीपाश्चैवाद्रयस्तथा ।
रौद्रदृष्ट्या तु ये दृष्टाः क्षयं गच्छन्ति तत् क्षणात् ॥ १२ ॥

प्रसादं कुरु मे सौरे वरार्थेऽहं तवाश्रितः ।
सौरे क्षमस्वापराधं सर्वभूतहिताय च ॥ १३ ॥

इति दशरथ कृत श्री शनैश्चर स्तोत्रम् ॥


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed