Sri Ratnagarbha Ganesha Vilasa Stuti – श्री रत्नगर्भ गणेश विलास स्तुतिः


वामदेवतनूभवं निजवामभागसमाश्रितं
वल्लभामाश्लिष्य तन्मुखवल्गुवीक्षणदीक्षितम् ।
वातनन्दन वाञ्छितार्थविधायिनं सुखदायिनं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १ ॥

कारणं जगतां कलाधरधारिणं शुभकारिणं
कायकान्ति जितारुणं कृतभक्तपापविदारिणम् ।
वादिवाक्सहकारिणं वाराणसीसञ्चारिणं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २ ॥

मोहसागरतारकं मायाविकुहनावारकं
मृत्युभयपरिहारकं रिपुकृत्यदोषनिवारकम् ।
पूजकाशापूरकं पुण्यार्थसत्कृतिकारकं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३ ॥

आखुदैत्यरथाङ्गमरुणमयूखमर्थि सुखार्थिनं
शेखरीकृत चन्द्ररेखमुदारसुगुणमदारुणम् ।
श्रीखनिं श्रितभक्तनिर्जरशाखिनं लेखावनं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ४ ॥

तुङ्गमूषकवाहनं सुरपुङ्गवारि विमोहनं
मङ्गलायतनं महाजनभृङ्गशान्तिविधायिनम् ।
अङ्गजान्तकनन्दनं सुखभृङ्गपद्मोदञ्चनं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ५ ॥

राघवेश्वररक्षकं रक्षौघशिक्षणदक्षकं
श्रीघनं श्रितमौनिवचनामोघतासम्पादनम् ।
श्लाघनीयदयागुणं मघवत्तपः फलपूरणं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ६ ॥

कञ्चनश्च्युतिगोप्यभावमकिञ्चनांश्च दयारसैः
सिञ्चता निजवीक्षणेन समञ्चितार्थसुखास्पदम् ।
पञ्चवक्त्रसुतं सुरद्विड्वञ्चनाधृत कौशलं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ७ ॥

यच्छतक्रतुकामितं प्रायच्छदर्चितमादरा-
-द्यच्छतच्छदसाम्यमन्वनुगच्छतीच्छति सौहृदम् ।
तच्छुभम्युकराम्बुजं तव दिक्पतिश्रियमर्थिने
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ८ ॥

राजराज किरीटकोटि विराजमान मणिप्रभा
पुञ्जरञ्जितमञ्जुलाङ्घ्रि सरोजमज वृजिनापहम् ।
भञ्जकं दिविषद्द्विषामनुरञ्जकं मुनिसन्तते-
-र्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ९ ॥

शिष्टकष्टनिबर्हणं सुरजुष्टनिजपदविष्टरं
दुष्टशिक्षणधूर्वहं मुनिपुष्टितुष्टीष्टप्रदम् ।
अष्टमूर्तिसुतं सुकरुणाविष्टमविनष्टादरं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १० ॥

शुण्ठशुष्क वितर्कहरणाकुण्ठशक्तिदमर्थिने
शाठ्यविरहितवितरणं श्रीकण्ठकृतसम्भाषणम् ।
काठकश्रुतिगोचरं कृतमाठपत्यपरीक्षणं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ११ ॥

पुण्डरीककृताननं शशिखण्डकलितशिखण्डकं
कुण्डलीश्वरमण्डितोदरमण्डजेशाभीष्टदम् ।
दण्डपाणिभयापहं मुनिमण्डली परिमण्डनं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १२ ॥

गूढमाम्नायाशयं परिलीढमर्थिमनोरथै-
-र्गाढमाश्लिष्टं गिरीश गिरीशजाभ्यां सादरम् ।
प्रौढसरसकवित्वसिद्धिद मूढनिजभक्तावनं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १३ ॥

पाणिधृतपाशाङ्कुशं गीर्वाणगणसन्दर्शकं
शोणदीधितिमप्रमेयमपर्णया परिपोषितम् ।
काणखञ्जकुणीष्टदं विश्राणितद्विजनामितं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १४ ॥

भूतभव्यभवद्विभुं परिधूतपातकमीशसं-
-जातमङ्घ्रि विलास जितकञ्जातमजितमरातिभिः ।
शीतरश्मिरवीक्षणं निर्गीतमाम्नायोक्तिभि-
-र्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १५ ॥

प्रार्थनीयपदं महात्मभिरर्थितं पुरवैरिणा-
-ऽनाथवर्गमनोरथानपि सार्थयन्तमहर्निशम् ।
पान्थसत्पथदर्शकं गणनाथमस्मद्दैवतं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १६ ॥

खेदशामकसुचरितं स्वाभेदबोधकमद्वयं
मोदहेतुगुणाकरं वाग्वादविजयदमैश्वरम् ।
श्रीमदनुपमसौहृदं मदनाशकं रिपुसन्तते-
-र्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १७ ॥

मुग्धमौग्ध्यनिवर्तकं रुचिमुग्धमुर्वनुकम्पया
दिग्धमुद्धृत पादनत जनमुद्धरन्तमिमं च माम् ।
शुद्धचित्सुखविग्रहं परिशुद्धवृत्त्यभिलक्षितं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १८ ॥

सानुकम्पमनारतं मुनिमानसाब्जमरालकं
दीनदैन्यविनाशकं सितभानुरेखाशेखरम् ।
गानरसविद्गीतसुचरितमेनसामपनोदकं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १९ ॥

कोपतापनिरासकं सामीप्यदं निजसत्कथा-
-लापिनां मनुजापि जनतापापहरमखिलेश्वरम् ।
सापराधिजनायशापदमापदामपहारकं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २० ॥

रिफ्फगेषु खगेषु जातो दुष्फलं समवाप्नुया-
-त्सत्फलाय गणेशमर्चतु निष्फलं न तदर्पणम् ।
यः फलीभूतः क्रतूनां तत्फलानामीश्वरं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २१ ॥

अम्बरं यद्वद्विनिर्मलमम्बुदैराच्छाद्यते
बिम्बभूतममुष्य जगतः साम्बसुतमज्ञानतः ।
तं बहिः सङ्गूहितं हेरम्बमालम्बं सतां
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २२ ॥

दम्भकर्माचरणकृत सौरम्भयाजिमुखे मनु-
-स्तम्भकारिणमङ्गनाकुचकुम्भपरिरम्भातुरैः ।
शम्भुसुतमाराधितं कृतिसम्भवाय च कामिभि-
-र्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २३ ॥

स्तौमि भूतगणेश्वरं सप्रेममात्मस्तुतिपरे
कामितप्रदमर्थिने धृतसोममभयदमाश्विने ।
श्रीमता नवरात्रदीक्षोद्दामवैभवभावितं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २४ ॥

आयुरारोग्यादिकामितदायिनं प्रतिहायनं
श्रेयसे सर्वैर्युगादौ भूयसे सम्भावितम् ।
कायजीववियोग कालापायहरमन्त्रेश्वरं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २५ ॥

वैरिषट्कनिरासकं कामारिकामितजीवितं
शौरिचिन्ताहारकं कृतनारिकेलाहारकम् ।
दूरनिर्जितपातकं संसारसागरसेतुकं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २६ ॥

कालकालकलाभवं कलिकालिकाघविरोधिनं
मूलभूतममुष्यजगतः श्रीलतोपघ्नायितम् ।
कीलकं मन्त्रादिसिद्धेः पालकं मुनिसन्तते-
-र्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २७ ॥

भावुकारम्भावसरसम्भावितं भर्गेप्सितं
सेवकावनदीक्षितं सहभावमोजस्तेजसोः ।
पावनं देवेषु सामस्तावकेष्टविधायकं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २८ ॥

काशिकापुरकलितनिवसतिमीशमस्मच्चेतसः
पाशिशिक्षापारवश्यविनाशकं शशिभासकम् ।
केशवादिसमर्चितं गौरीशगुप्तमहाधनं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २९ ॥

पेषकं पापस्य दुर्जनशोषकं सुविशेषकं
पोषकं सुजनस्य सुन्दरवेषकं निर्दोषकम् ।
मूषकं त्वधिरुह्य भक्तमनीषित प्रतिपादकं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३० ॥

वासवादिसुरार्चितं कृतवासुदेवाभीप्सितं
भासमानमुरुप्रभाभिरुपासकाधिकसौहृदम् ।
ह्रासकं दुरहङ्कृतेर्निर्यासकं रक्षस्तते-
-र्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३१ ॥

बाहुलेयगुरुं त्रयी यं प्राह सर्वगणेश्वरं
गूहितं मुनिमानसैरव्याहताधिकवैभवम् ।
आहिताग्निहितं मनीषिभिरूहितं सर्वत्र तं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३२ ॥

केलिजितसुरशाखिनं सुरपालपूजितपादुकं
व्यालपरिबृढ कङ्कणं भक्तालिरक्षणदीक्षितम् ।
कालिकातनयं कलानिधिमौलिमाम्नायस्तुतं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३३ ॥

दक्षिणेन सुरेषु दुर्जनशिक्षणेषु पटीयसा
रक्षसामपनोदकेन महोक्षवाहप्रेयसा ।
रक्षिता वयमक्षराष्टकलक्षजपतो येन वै
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३४ ॥

रत्नगर्भगणेश्वरस्तुति नूत्नपद्यततिं पठे-
-द्यत्नवान्यः प्रतिदिनं द्राक्प्रत्नवाक्सदृशार्थदाम् ।
रत्नरुक्मसुखोच्छ्रयं सापत्नविरहितमाप्नुया-
-द्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३५ ॥

सिद्धिनायकसंस्तुतिं सिद्धान्ति सुब्रह्मण्यहृ-
-च्छुद्धये समुदीरितां वाग्बुद्धिबलसन्दायिनीम् ।
सिद्धये पठतानुवासरमीप्सितस्य मनीषिणः
श्रद्धया निर्निघ्नसम्पद्वृद्धिरपि भविता यतः ॥ ३६ ॥

इति श्रीसुब्रह्मण्ययोगिविरचितं रत्नगर्भ गणेश विलास स्तुतिः ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed