Sri Ranga Gadyam – श्री रङ्ग गद्यम्


चिदचित्परतत्त्वानां तत्त्वायाथार्थ्यवेदिने ।
रामानुजाय मुनये नमो मम गरीयसे ॥

स्वाधीनत्रिविधचेतनाऽचेतन स्वरूपस्थिति प्रवृत्तिभेदं, क्लेशकर्माद्यशेषदोषासंस्पृष्टं, स्वाभाविकानवधिकातिशय ज्ञानबलैश्वर्य वीर्यशक्तितेजस्सौशील्य वात्सल्य मार्दवार्जव सौहार्द साम्य कारुण्य माधुर्य गाम्भीर्य औदार्य चातुर्य स्थैर्य धैर्य शौर्य पराक्रम सत्यकाम सत्यसङ्कल्प कृतित्व कृतज्ञताद्यसङ्ख्येय कल्याणगुण गणौघ महार्णवं, परब्रह्मभूतं, पुरुषोत्तमं, श्रीरङ्गशायिनं, अस्मत्स्वामिनं, प्रबुद्धनित्यनियाम्य नित्यदास्यैकरसात्मस्वभावोऽहं, तदेकानुभवः तदेकप्रियः, परिपूर्णं भगवन्तं विशदतमानुभवेन निरन्तरमनुभूय, तदनुभवजनितानवधिकातिशय प्रीतिकारिताशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकिङ्करो भवानि ।

स्वात्मनित्य नियाम्य नित्यदास्यैकरसात्म स्वभावानुसन्धानपूर्वक भगवदनवधिकातिशय स्वाम्याद्यखिल गुणगणानुभव जनितानवधिकातिशय प्रीतिकारिताशेषावस्थोचिताशेष शेषतैकरतिरूप नित्यकैङ्कर्य प्राप्त्युपायभूतभक्ति तदुपाय सम्यग् ज्ञानतदुपाय समीचीनक्रिया तदनुगुणसात्त्विकताऽऽस्तिक्यादि समस्तात्मगुणविहीनः, दुरुत्तरानन्त तद्विपर्यय ज्ञानक्रियानुगुणानादि पापवासना महार्णवान्तर्निमग्नः, तिलतैलवद्दारुवह्निवद्दुर्विवेच त्रिगुण क्षणक्षरण स्वभावाचेतन प्रकृतिव्याप्तिरूप दुरत्यय भगवन्माया तिरोहित स्वप्रकाशः, अनाद्यविद्यासञ्चितानन्ताशक्य विस्रंसन कर्मपाश प्रग्रथितः, अनागतानन्तकाल समीक्षयाऽप्यदृष्टसन्तारोपायः, निखिलजन्तुजातशरण्य, श्रीमन्नारायण, तव चरणारविन्दयुगलं शरणमहं प्रपद्ये ॥

एवमवस्थितस्याप्यर्थित्वमात्रेण, परमकारुणिको भगवान्, स्वानुभव प्रीत्योपनीतैकान्तिकात्यन्तिक नित्यकैङ्कर्यैकरतिरूप नित्यदास्यं दास्यतीति विश्वासपूर्वकं भगवन्तं नित्यकिङ्करतां प्रार्थये ॥

तवानुभूतिसम्भूतप्रीतिकारित दासताम् ।
देहि मे कृपया नाथ न जाने गतिमन्यथा ॥

सर्वावस्थोचिताशेष शेषतैकरतिस्तव ।
भवेयं पुण्डरीकाक्ष त्वमेवैवं कुरुष्व माम् ॥

एवम्भूत तत्त्व याथात्म्यवबोध तदिच्छारहितस्यापि, एतदुच्चारणमात्रावलम्बनेन, उच्यमानार्थ परमार्थनिष्ठं मे मनस्त्वमेवाद्यैव कारय ॥

अपार करुणाम्बुधे, अनालोचित विशेषाशेष लोकशरण्य, प्रणतार्तिहर, आश्रितवात्सल्यैक महोदधे, अनवरतविदित निखिलभूतजात याथात्म्य, सत्यकाम, सत्यसङ्कल्प, आपत्सख, काकुत्स्थ, श्रीमन्, नारायण, पुरुषोत्तम, श्रीरङ्गनाथ, मम नाथ, नमोऽस्तु ते ॥

इति श्रीभगवद्रामानुज विरचितं श्री रङ्ग गद्यम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed