Sri Rahu Stotram 1 – श्री राहु स्तोत्रम् – १


नमस्ते दैत्यरूपाय देवारिं प्रणमाम्यहम् ।
नमस्ते सर्वभक्ष्याय घोररूपाय वै नमः ॥ १ ॥

त्वं ब्रह्मा वरुणो देवस्त्वं विष्णुस्त्वं हरिः शिवः ।
मर्त्यलोके भवान्प्रीतः संसारजनतारकः ॥ २ ॥

कूटपर्वतदुर्गाणि नगराणि पुराणि च ।
यस्य क्रोधवशाद्भस्मीभवन्ति क्षणमात्रकम् ॥ ३ ॥

धूम्रवर्णो भवान् राहू रक्ताक्षः पिङ्गलोपमः ।
क्रूरग्रहस्तथा भीमो यमरूपो महाबलः ॥ ४ ॥

यस्य स्थाने पञ्चमेऽपि षष्ठे चैव तृतीयके ।
दशमैकादशे चैव तस्य श्रेयः करोत्यलम् ॥ ५ ॥

अन्नं खड्गं च यद्दत्तं राहवे सुफलप्रदम् ।
पृथिव्यां ब्रह्मपीडां च गोपीडां तन्निवारयेत् ॥ ६ ॥

कृमिकीटपतङ्गेषु चरन्तं सचराचरम् ।
गोदानं भूमिदानं च ह्यन्नं वस्त्रं च दापयेत् ॥ ७ ॥

सौवर्णरौप्यदानं च कन्यादानं च तत्क्षणात् ।
एतद्दानं च सम्पूर्णं राहुमोक्षकरं नृणाम् ।
अस्य स्तोत्रस्य माहात्म्याद्राहुपीडा विनश्यति ॥ ८ ॥

रक्ताक्षो धूम्रवर्णाभो विजितारिर्महाबलः ।
अबाहुश्चान्तरिक्षस्थः स राहुः प्रीयतां मम ॥ ९ ॥

इति राहु स्तोत्रम् ।


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed