Sri Rahu Kavacham – श्री राहु कवचम्


अस्य श्रीराहु कवचस्तोत्रस्य चन्द्रमा ऋषिः, अनुष्टुप् छन्दः, राहुर्देवता, रां बीजं, नमः शक्तिः, स्वाहा कीलकं, राहु प्रीत्यर्थे जपे विनियोगः ।

ध्यानम् –
राहुं चतुर्भुजं चर्मशूलखड्गवराङ्गिनं
कृष्णाम्बरधरं नीलं कृष्णगन्धानुलेपनम् ।
गोमेधिकविभूषं च विचित्रमकुटं फणिं
कृष्णसिंहरथारूढं मेरुं चैवाप्रदक्षिणम् ॥

प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् ।
सैंहिकेयं करालास्यं भक्तानामभयप्रदम् ॥ १ ॥

अथ कवचम् –
नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः ।
चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरीरवान् ॥ २ ॥

नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम । [करालास्यः]
जिह्वां मे सिंहिकासूनुः कण्ठं मे कठिनाङ्घ्रिकः ॥ ३ ॥ [कष्टनाशनः]

भुजङ्गेशो भुजौ पातु नीलमाल्याम्बरः करौ ।
पातु वक्षःस्थलं मन्त्री पातु कुक्षिं विधुन्तुदः ॥ ४ ॥

कटिं मे विकटः पातु ऊरू मे सुरपूजितः ।
स्वर्भानुर्जानुनी पातु जङ्घे मे पातु जाड्यहा ॥ ५ ॥

गुल्फौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः ।
सर्वाणङ्गानि मे पातु नीलचन्दनभूषणः ॥ ६ ॥

राहोरिदं कवचमृद्धिदवस्तुदं यो
भक्त्या पठत्यनुदिनं नियतः शुचिः सन् ।
प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायु-
-रारोग्यमात्मविजयं च हि तत्प्रसादात् ॥ ७ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि धृतराष्ट्रसञ्जयसंवादे श्री राहु कवचम् ।


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed