Sri Parankusa Ashtakam – श्री पराङ्कुशाष्टकम्


त्रैविद्यवृद्धजनमूर्धविभूषणं यत्
संपच्च सात्त्विकजनस्य यदेव नित्यम् ।
यद्वा शरण्यमशरण्यजनस्य पुण्यं
तत्संश्रयेम वकुलाभरणाङ्घ्रियुग्मम् ॥ १ ॥

भक्तिप्रभाव भवदद्भुतभावबन्ध
सन्धुक्षित प्रणयसाररसौघ पूर्णः ।
वेदार्थरत्ननिधिरच्युतदिव्यधाम
जीयात्पराङ्कुश पयोधिरसीम भूमा ॥ २ ॥

ऋषिं जुषामहे कृष्णतृष्णातत्त्वमिवोदितम् ।
सहस्रशाखां योऽद्राक्षीद्द्राविडीं ब्रह्मसंहिताम् ॥ ३ ॥

यद्गोसहस्रमपहन्ति तमांसि पुंसां
नारायणो वसति यत्र सशङ्खचक्रः ।
यन्मण्डलं श्रुतिगतं प्रणमन्ति विप्राः
तस्मै नमो वकुलभूषण भास्कराय ॥ ४ ॥

पत्युः श्रियः प्रसादेन प्राप्त सार्वज्ञ सम्पदम् ।
प्रपन्न जनकूटस्थं प्रपद्ये श्रीपराङ्कुशम् ॥ ५ ॥

शठकोपमुनिं वन्दे शठानां बुद्धिः दूषकम् ।
अज्ञानां ज्ञानजनकं तिन्त्रिणीमूल संश्रयम् ॥ ६ ॥

वकुलाभरणं वन्दे जगदाभरणं मुनिम् ।
यश्श्रुतेरुत्तरं भागं चक्रे द्राविड भाषया ॥ ७ ॥

नमज्जनस्य चित्त भित्ति भक्ति चित्र तूलिका
भवाहि वीर्यभञ्जने नरेन्द्र मन्त्र यन्त्रणा ।
प्रपन्न लोक कैरव प्रसन्न चारु चन्द्रिका
शठारि हस्तमुद्रिका हठाद्धुनोतु मे तमः ॥ ८ ॥

वकुलालङ्कृतं श्रीमच्छठकोप पदद्वयम् ।
अस्मत्कुलधनं भोग्यमस्तु मे मूर्ध्नि भूषणम् ॥ ९ ॥

इति श्रीपराशरभट्टराचार्य कृत श्री पराङ्कुशाष्टकम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Sri Parankusa Ashtakam – श्री पराङ्कुशाष्टकम्

  1. I would like to download the PDF version of the PARANKUSASTAKAM in Devanagari lipi.

Leave a Reply

error: Not allowed