Sri Padmavathi Stotram – श्री पद्मावती स्तोत्रम्


विष्णुपत्नि जगन्मातः विष्णुवक्षस्थलस्थिते ।
पद्मासने पद्महस्ते पद्मावति नमोऽस्तु ते ॥ १ ॥

वेङ्कटेशप्रिये पूज्ये क्षीराब्दितनये शुभे ।
पद्मेरमे लोकमातः पद्मावति नमोऽस्तु ते ॥ २ ॥

कल्याणी कमले कान्ते कल्याणपुरनायिके ।
कारुण्यकल्पलतिके पद्मावति नमोऽस्तु ते ॥ ३ ॥

सहस्रदलपद्मस्थे कोटिचन्द्रनिभानने ।
पद्मपत्रविशालाक्षी पद्मावति नमोऽस्तु ते ॥ ४ ॥

सर्वज्ञे सर्ववरदे सर्वमङ्गलदायिनी ।
सर्वसम्मानिते देवी पद्मावति नमोऽस्तु ते ॥ ५ ॥

सर्वहृद्दहरावासे सर्वपापभयापहे ।
अष्टैश्वर्यप्रदे लक्ष्मी पद्मावति नमोऽस्तु ते ॥ ६ ॥

देहि मे मोक्षसाम्राज्यं देहि त्वत्पाददर्शनं ।
अष्टैश्वर्यं च मे देहि पद्मावति नमोऽस्तु ते ॥ ७ ॥

नक्रश्रवणनक्षत्रे कृतोद्वाहमहोत्सवे ।
कृपया पाहि नः पद्मे त्वद्भक्तिभरितान् रमे ॥ ८ ॥

इन्दिरे हेमवर्णाभे त्वां वन्दे परमात्मिकां ।
भवसागरमग्नं मां रक्ष रक्ष महेश्वरी ॥ ९ ॥

कल्याणपुरवासिन्यै नारायण्यै श्रियै नमः ।
शृतिस्तुतिप्रगीतायै देवदेव्यै च मङ्गलम् ॥ १० ॥


इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु । इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed