Shani Krutha Sri Narasimha Stuti – श्री नृसिंह स्तुति (शनैश्चर कृतम्)


श्री कृष्ण उवाच ।
सुलभो भक्तियुक्तानां दुर्दर्शो दुष्टचेतसाम् ।
अनन्यगतिकानां च प्रभुर्भक्तैकवत्सलः ॥ १

शनैश्चरस्तत्र नृसिंहदेव
स्तुतिं चकारामल चित्तवृतिः ।
प्रणम्य साष्टाङ्गमशेषलोक
किरीट नीराजित पादपद्मम् ॥ २ ॥

श्री शनिरुवाच ।
यत्पादपङ्कजरजः परमादरेण
संसेवितं सकलकल्मषराशिनाशम् ।
कल्याणकारकमशेषनिजानुगानां
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ३ ॥

सर्वत्र चञ्चलतया स्थितया हि लक्ष्म्या
ब्रह्मादिवन्द्यपदया स्थिरयान्यसेवी ।
पादारविन्दयुगलं परमादरेण
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ४ ॥

यद्रूपमागमशिरः प्रतिपाद्यमाद्यं
आध्यात्मिकादि परितापहरं विचिन्त्यम् ।
योगीश्वरैरपगताऽखिलदोषसङ्घैः
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ५ ॥

प्रह्लादभक्तवचसा हरिराविरासीत्
स्तम्भे हिरण्यकशिपुं य उदारभावः ।
ऊर्वो निधाय उदरं नखरैर्ददार
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ६ ॥

यो नैजभक्तमनलाम्बुधि भूधरोग्र-
-शृङ्गप्रपात विषदन्तसरीसृपेभ्यः ।
सर्वात्मकः परमकारुणिको ररक्ष
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ७ ॥

यन्निर्विकार पररूप विचिन्तनेन
योगीश्वरा विषयवीत समस्तरागाः ।
विश्रान्तिमापुर विनाशवतीं पराख्यां
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ८ ॥

यद्रूपमुग्रमरिमर्दन भावशाली
सञ्चिन्तनेन सकलाभवभीतिहारी । [अघविनाशकारि]
भूत ज्वर ग्रह समुद्भव भीतिनाशं
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ९ ॥

यस्योत्तमं यश उमापतिमग्रजन्म
शक्रादि दैवत सभासु समस्तगीतम् ।
श्रुत्वैक सर्वशमलप्रशमेकदक्षं [शक्त्यैव]
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ १० ॥

श्रीकृष्ण उवाच ।
इत्थं श्रुत्वा स्तुतिं देवः शनिना कल्पितां हरिः ।
उवाच ब्रह्म वृन्दस्थं शनिं तं भक्तवत्सलः ॥ ११ ॥

श्रीनृसिंह उवाच ।
प्रसन्नोऽहं शने तुभ्यं वरं वरय शोभनम् ।
यं वाञ्छसि तमेव त्वं सर्वलोक हितावहम् ॥ १२ ॥

श्री शनिरुवाच ।
नृसिंह त्वं मयि कृपां कुरु देव दयानिधे ।
मद्वासरस्तव प्रीतिकरः स्याद्देवतापते ॥ १३ ॥

मत्कृतं त्वत्परं स्तोत्रं शृण्वन्ति च पठन्ति च ।
सर्वान् कामन् पूरयेथाः तेषां त्वं लोकभावन ॥ १४ ॥

श्री नृसिंह उवाच ।
तथैवास्तु शनेऽहं वै रक्षो भुवनसंस्थितः ।
भक्त कामान् पूरयिष्ये त्वं ममैकं वचः शृणु ॥ १५ ॥

त्वत्कृतं मत्परं स्तोत्रं यः पठेच्छृणुयाच्च यः ।
द्वादशाष्टम जन्मस्थात् त्वद्भयं मास्तु तस्य वै ॥ १६ ॥

शनिर्नरहरिं देवं तथेति प्रत्युवाच ह ।
ततः परमसन्तुष्टो जयेति मुनयोवदन् ॥ १७ ॥

श्री कृष्ण उवाच ।
इदं शनैश्चरस्याथ नृसिंह देव
संवादमेतत् स्तवनं च मानवः ।
शृणोति यः श्रावयते च भक्त्या
सर्वाण्यभीष्टानि च विन्दते ध्रुवम् ॥ १८ ॥

इति श्री भविष्योत्तरपुराणे श्री शनैश्चर कृत श्री नृसिंह स्तुतिः ।


इतर श्री नृसिंह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Shani Krutha Sri Narasimha Stuti – श्री नृसिंह स्तुति (शनैश्चर कृतम्)

  1. It is a great service that you are doing to enlighten devotees of Lord Sri Narasimha with this wonderful stuti.

Leave a Reply

error: Not allowed