Sri Mahaganapathi Navarna vedapada stava – श्री महागणपति नवार्ण वेदपादस्तवः


श्रीकण्ठतनय श्रीश श्रीकर श्रीदलार्चित ।
श्रीविनायक सर्वेश श्रियं वासय मे कुले ॥ १ ॥

गजानन गणाधीश द्विजराजविभूषित ।
भजे त्वां सच्चिदानन्द ब्रह्मणां ब्रह्मणस्पते ॥ २ ॥

णषष्ठवाच्यनाशाय रोगाटविकुठारिणे ।
घृणापालितलोकाय वनानां पतये नमः ॥ ३ ॥

धियं प्रयच्छते तुभ्यमीप्सितार्थप्रदायिने ।
दीप्तभूषणभूषाय दिशां च पतये नमः ॥ ४ ॥

पञ्चब्रह्मस्वरूपाय पञ्चपातकहारिणे ।
पञ्चतत्त्वात्मने तुभ्यं पशूनां पतये नमः ॥ ५ ॥

तटित्कोटिप्रतीकाशतनवे विश्वसाक्षिणे ।
तपःस्वाध्यायिने तुभ्यं सेनानिभ्यश्च वो नमः ॥ ६ ॥

ये भजन्त्यक्षरं त्वां ते प्राप्नुवन्त्यक्षरात्मताम् ।
नैकरूपाय महते मुष्णतां पतये नमः ॥ ७ ॥

नगजावरपुत्राय सुरराजार्चिताय च ।
सुगुणाय नमस्तुभ्यं सुमृडीकाय मीढुषे ॥ ८ ॥

महापातकसङ्घातमहारणभयापह ।
त्वदीयकृपया देव सर्वानव यजामहे ॥ ९ ॥

नवार्णरत्ननिगमपादसम्पुटितां स्तुतिम् ।
भक्त्या पठन्ति ये तेषां तुष्टो भव गणाधिप ॥ १० ॥

इति श्री महागणपति नवार्णवेदपाद स्तवः ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed