Sri Lalitha Trisati Stotram Poorvapeetika – श्री ललिता त्रिशती स्तोत्रम् – पूर्वपीठिका


अगस्त्य उवाच ।
हयग्रीव दयासिन्धो भगवन् शिष्यवत्सल ।
त्वत्तः श्रुतमशेषेण श्रोतव्यं यद्यदस्ति तत् ॥ १ ॥

रहस्यनामसाहस्रमपि त्वत्तः श्रुतं मया ।
इतः परं मे नास्त्येव श्रोतव्यमिति निश्चयः ॥ २ ॥

तथापि मम चित्तस्य पर्याप्तिर्नैव जायते ।
कार्त्स्न्यार्थः प्राप्य इत्येव शोचयिष्याम्यहं प्रभो ॥ ३ ॥

किमिदं कारणं ब्रूहि ज्ञातव्यांशोऽस्ति वा पुनः ।
अस्ति चेन्मम तद्ब्रूहि ब्रूहीत्युक्ता प्रणम्य तम् ॥ ४ ॥

सूत उवाच ।
समाललम्बे तत्पादयुगलं कलशोद्भवः ।
हयाननो भीतभीतः किमिदं किमिदं त्विति ॥ ५ ॥

मुञ्च मुञ्चेति तं चोक्त्वा चिन्ताक्रान्तो बभूव सः ।
चिरं विचार्य निश्चिन्वन्वक्तव्यं न मयेत्यसौ ॥ ६ ॥

तूष्णीं स्थितः स्मरन्नाज्ञां ललिताम्बाकृतां पुरा ।
प्रणम्य विप्रः स मुनिस्तत्पादावत्यजन्स्थितः ॥ ७ ॥

वर्षत्रयावधि तथा गुरुशिष्यौ तथा स्थितौ ।
तच्छृण्वन्तश्च पश्यन्तः सर्वे लोकाः सुविस्मिताः ॥ ८ ॥

ततः श्रीललितादेवी कामेश्वरसमन्विता ।
प्रादुर्भूय हयग्रीवं रहस्येवमचोदयत् ॥ ९ ॥

श्रीदेव्युवाच ।
अश्वाननावयोः प्रीतिः शास्त्रविश्वासिनि त्वयि ।
राज्यं देयं शिरो देयं न देया षोडशाक्षरी ॥ १० ॥

स्वमातृजारवद्गोप्या विद्यैषेत्यागमा जगुः ।
ततोऽतिगोपनीया मे सर्वपूर्तिकरी स्तुतिः ॥ ११ ॥

मया कामेश्वरेणापि कृता सङ्गोपिता भृशम् ।
मदाज्ञया वचोदेव्यश्चक्रुर्नामसहस्रकम् ॥ १२ ॥

आवाभ्यां कथिता मुख्या सर्वपूर्तिकरी स्तुतिः ।
सर्वक्रियाणां वैकल्यपूर्तिर्यज्जपतो भवेत् ॥ १३ ॥

सर्वपूर्तिकरं तस्मादिदं नाम कृतं मया ।
तद्ब्रूहि त्वमगस्त्याय पात्रमेव न संशयः ॥ १४ ॥

पत्न्यस्य लोपामुद्राख्या मामुपास्तेऽतिभक्तितः ।
अयं च नितरां भक्तस्तस्मादस्य वदस्व तत् ॥ १५ ॥

अमुञ्चमानस्त्वत्पादौ वर्षत्रयमसौ स्थितः ।
एतज्ज्ञातुमतो भक्त्या हीदमेव निदर्शनम् ॥ १६ ॥

चित्तपर्याप्तिरेतस्य नान्यथा सम्भविष्यति ।
सर्वपूर्तिकरं तस्मादनुज्ञातो मया वद ॥ १७ ॥

सूत उवाच ।
इत्युक्त्वाऽन्तरधादम्बा कामेश्वरसमन्विता ।
अथोत्थाप्य हयग्रीवः पाणिभ्यां कुम्भसम्भवम् ॥ १८ ॥

संस्थाप्य निकटे वाचमुवाच भृशविस्मितः ।
हयग्रीव उवाच ।
कृतार्थोऽसि कृतार्थोऽसि कृतार्थोऽसि घटोद्भव ॥ १९ ॥

त्वत्समो ललिताभक्तो नास्ति नास्ति जगत्त्रये ।
येनागस्त्य स्वयं देवी तव वक्तव्यमन्वशात् ॥ २० ॥

सच्छिष्येण त्वया चाहं दृष्टवानस्मि तां शिवाम् ।
यतन्ते दर्शनार्थाय ब्रह्मविष्ण्वीशपूर्वकाः ॥ २१ ॥

अतः परं ते वक्ष्यामि सर्वपूर्तिकरं स्तवम् ।
यस्य स्मरणमात्रेण पर्याप्तिस्ते भवेद्धृदि ॥ २२ ॥

रहस्यनामसाहस्रादपि गुह्यतमं मुने ।
आवश्यकं ततोऽप्येतल्ललितां समुपासितुम् ॥ २३ ॥

तदहं सम्प्रवक्ष्यामि ललिताम्बानुशासनात् ।
श्रीमत्पञ्चदशाक्षर्याः कादिवर्णक्रमान्मुने ॥ २४ ॥

पृथग्विंशतिनामानि कथितानि घटोद्भव ।
आहत्य नाम्नां त्रिशती सर्वसम्पूर्तिकारिणी ॥ २५ ॥

रहस्यातिरहस्यैषा गोपनीया प्रयत्नतः ।
तां शृणुष्व महाभाग सावधानेन चेतसा ॥ २६ ॥

केवलं नामबुद्धिस्ते न कार्या तेषु कुम्भज ।
मन्त्रात्मकत्वमेतेषां नाम्नां नामात्मतापि च ॥ २७ ॥

तस्मादेकाग्रमनसा श्रोतव्यं च त्वया सदा ।
सूत उवाच ।
इत्युक्त्वा तं हयग्रीवः प्रोचे नामशतत्रयम् ॥ २८ ॥

श्री ललिता त्रिशती स्तोत्रम् >>


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed