Sri Guru Paduka Stotram – श्री गुरु पादुका स्तोत्रम्


अनन्तसंसारसमुद्रतार-
नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।
वैराग्यसाम्राज्यदपूजनाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ १ ॥

कवित्ववाराशिनिशाकराभ्यां
दौर्भाग्यदावाम्बुदमालिकाभ्याम् ।
दूरीकृतानम्रविपत्तिताभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ २ ॥

नता ययोः श्रीपतितां समीयुः
कदाचिदप्याशु दरिद्रवर्याः ।
मूकाश्च वाचस्पतितां हि ताभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ३ ॥

नालीकनीकाशपदाहृताभ्यां
नानाविमोहादिनिवारिकाभ्याम् ।
नमज्जनाभीष्टततिप्रदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ४ ॥

नृपालिमौलिव्रजरत्नकान्ति-
सरिद्विराजज्झषकन्यकाभ्याम् ।
नृपत्वदाभ्यां नतलोकपङ्क्तेः
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ५ ॥

पापान्धकारार्कपरम्पराभ्यां
तापत्रयाहीन्द्रखगेश्वराभ्याम् ।
जाड्याब्धिसंशोषणवाडवाभ्याम्
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ६ ॥

शमादिषट्कप्रदवैभवाभ्यां
समाधिदानव्रतदीक्षिताभ्याम् ।
रमाधवाङ्घ्रिस्थिरभक्तिदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ७ ॥

स्वार्चापराणामखिलेष्टदाभ्यां
स्वाहासहायाक्षधुरन्धराभ्याम् ।
स्वान्ताच्छभावप्रदपूजनाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ८ ॥

कामादिसर्पव्रजगारुडाभ्यां
विवेकवैराग्यनिधिप्रदाभ्याम् ।
बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ९ ॥


इतर श्री गुरु स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed