Sri Guru Gita (Truteeya Adhyaya) – श्री गुरुगीता तृतीयोऽध्यायः


अथ तृतीयोऽध्यायः ॥

अथ काम्यजपस्थानं कथयामि वरानने ।
सागरान्ते सरित्तीरे तीर्थे हरिहरालये ॥ २३६ ॥

शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे ।
वटस्य धात्र्या मूले वा मठे बृन्दावने तथा ॥ २३७ ॥

पवित्रे निर्मले देशे नित्यानुष्ठानतोऽपि वा ।
निर्वेदनेन मौनेन जपमेतत् समारभेत् ॥ २३८ ॥

जाप्येन जयमाप्नोति जपसिद्धिं फलं तथा ।
हीनं कर्म त्यजेत्सर्वं गर्हितस्थानमेव च ॥ २३९ ॥

श्मशाने बिल्वमूले वा वटमूलान्तिके तथा ।
सिद्ध्यन्ति कानके मूले चूतवृक्षस्य सन्निधौ ॥ २४० ॥

पीतासनं मोहने तु ह्यसितं चाभिचारिके ।
ज्ञेयं शुक्लं च शान्त्यर्थं वश्ये रक्तं प्रकीर्तितम् ॥ २४१ ॥

जपं हीनासनं कुर्वन् हीनकर्मफलप्रदम् ।
गुरुगीतां प्रयाणे वा सङ्ग्रामे रिपुसङ्कटे ॥ २४२ ॥

जपन् जयमवाप्नोति मरणे मुक्तिदायिका ।
सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रे न संशयः ॥ २४३ ॥

गुरुमन्त्रो मुखे यस्य तस्य सिद्ध्यन्ति नाऽन्यथा ।
दीक्षया सर्वकर्माणि सिद्ध्यन्ति गुरुपुत्रके ॥ २४४ ॥

भवमूलविनाशाय चाष्टपाशनिवृत्तये ।
गुरुगीताम्भसि स्नानं तत्त्वज्ञः कुरुते सदा ॥ २४५ ॥

स एवं सद्गुरुः साक्षात् सदसद्ब्रह्मवित्तमः ।
तस्य स्थानानि सर्वाणि पवित्राणि न संशयः ॥ २४६ ॥

सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति ।
तत्र देवगणाः सर्वे क्षेत्रपीठे चरन्ति च ॥ २४७ ॥

आसनस्थाः शयाना वा गच्छन्तस्तिष्ठतोऽपि वा ।
अश्वारूढा गजारूढाः सुषुप्ता जाग्रतोऽपि वा ॥ २४८ ॥

शुचिर्भूता ज्ञानवन्तो गुरुगीतां जपन्ति ये ।
तेषां दर्शनसंस्पर्शात् दिव्यज्ञानं प्रजायते ॥ २४९ ॥

समुद्रे वै यथा तोयं क्षीरे क्षीरं जले जलम् ।
भिन्ने कुम्भे यथाऽऽकाशं तथाऽऽत्मा परमात्मनि ॥ २५० ॥

तथैव ज्ञानवान् जीवः परमात्मनि सर्वदा ।
ऐक्येन रमते ज्ञानी यत्र कुत्र दिवानिशम् ॥ २५१ ॥

एवंविधो महायुक्तः सर्वत्र वर्तते सदा ।
तस्मात्सर्वप्रकारेण गुरुभक्तिं समाचरेत् ॥ २५२ ॥

गुरुसन्तोषणादेव मुक्तो भवति पार्वति ।
अणिमादिषु भोक्तृत्वं कृपया देवि जायते ॥ २५३ ॥

साम्येन रमते ज्ञानी दिवा वा यदि वा निशि ।
एवंविधो महामौनी त्रैलोक्यसमतां व्रजेत् ॥ २५४ ॥

अथ संसारिणः सर्वे गुरुगीता जपेन तु ।
सर्वान् कामांस्तु भुञ्जन्ति त्रिसत्यं मम भाषितम् ॥ २५५ ॥

सत्यं सत्यं पुनः सत्यं धर्मसारं मयोदितं ।
गुरुगीतासमं स्तोत्रं नास्ति तत्त्वं गुरोः परम् ॥ २५६ ॥

गुरुर्देवो गुरुर्धर्मो गुरौ निष्ठा परं तपः ।
गुरोः परतरं नास्ति त्रिवारं कथयामि ते ॥ २५७ ॥

धन्या माता पिता धन्यो गोत्रं धन्यं कुलोद्भवः ।
धन्या च वसुधा देवि यत्र स्याद्गुरुभक्तता ॥ २५८ ॥

आकल्पजन्म कोटीनां यज्ञव्रततपः क्रियाः ।
ताः सर्वाः सफला देवि गुरूसन्तोषमात्रतः ॥ २५९ ॥

शरीरमिन्द्रियं प्राणमर्थं स्वजनबन्धुता ।
मातृकुलं पितृकुलं गुरुरेव न संशयः ॥ २६० ॥

मन्दभाग्या ह्यशक्ताश्च ये जना नानुमन्वते ।
गुरुसेवासु विमुखाः पच्यन्ते नरकेऽशुचौ ॥ २६१ ॥

विद्या धनं बलं चैव तेषां भाग्यं निरर्थकम् ।
येषां गुरूकृपा नास्ति अधो गच्छन्ति पार्वति ॥ २६२ ॥

ब्रह्मा विष्णुश्च रुद्रश्च देवाश्च पितृकिन्नराः ।
सिद्धचारणयक्षाश्च अन्ये च मुनयो जनाः ॥ २६३ ॥

गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम् ।
सर्वतीर्थमयं देवि श्रीगुरोश्चरणाम्बुजम् ॥ २६४ ॥

कन्याभोगरता मन्दाः स्वकान्तायाः पराङ्मुखाः ।
अतः परं मया देवि कथितं न मम प्रिये ॥ २६५ ॥

इदं रहस्यमस्पष्टं वक्तव्यं च वरानने ।
सुगोप्यं च तवाग्रे तु ममात्मप्रीतये सति ॥ २६६ ॥

स्वामिमुख्यगणेशाद्यान् वैष्णवादींश्च पार्वति ।
न वक्तव्यं महामाये पादस्पर्शं कुरुष्व मे ॥ २६७ ॥

अभक्ते वञ्चके धूर्ते पाषण्डे नास्तिकादिषु ।
मनसाऽपि न वक्तव्या गुरुगीता कदाचन ॥ २६८ ॥

गुरवो बहवः सन्ति शिष्यवित्तापहारकाः ।
तमेकं दुर्लभं मन्ये शिष्यहृत्तापहारकम् ॥ २६९ ॥

चातुर्यवान् विवेकी च अध्यात्मज्ञानवान् शुचिः ।
मानसं निर्मलं यस्य गुरुत्वं तस्य शोभते ॥ २७० ॥

गुरवो निर्मलाः शान्ताः साधवो मितभाषिणः ।
कामक्रोधविनिर्मुक्ताः सदाचाराः जितेन्द्रियाः ॥ २७१ ॥

सूचकादिप्रभेदेन गुरवो बहुधा स्मृताः ।
स्वयं सम्यक् परीक्ष्याथ तत्त्वनिष्ठं भजेत्सुधीः ॥ २७२ ॥

वर्णजालमिदं तद्वद्बाह्यशास्त्रं तु लौकिकम् ।
यस्मिन् देवि समभ्यस्तं स गुरुः सुचकः स्मृतः ॥ २७३ ॥

वर्णाश्रमोचितां विद्यां धर्माधर्मविधायिनीं ।
प्रवक्तारं गुरुं विद्धि वाचकं त्विति पार्वति ॥ २७४ ॥

पञ्चाक्षर्यादिमन्त्राणामुपदेष्टा तु पार्वति ।
स गुरुर्बोधको भूयादुभयोरयमुत्तमः ॥ २७५ ॥

मोहमारणवश्यादितुच्छमन्त्रोपदेशिनम् ।
निषिद्धगुरुरित्याहुः पण्डितास्तत्त्वदर्शिनः ॥ २७६ ॥

अनित्यमिति निर्दिश्य संसारं सङ्कटालयम् ।
वैराग्यपथदर्शी यः स गुरुर्विहितः प्रिये ॥ २७७ ॥

तत्त्वमस्यादिवाक्यानामुपदेष्टा तु पार्वति ।
कारणाख्यो गुरुः प्रोक्तो भवरोगनिवारकः ॥ २७८ ॥

सर्वसन्देहसन्दोहनिर्मूलनविचक्षणः ।
जन्ममृत्युभयघ्नो यः स गुरुः परमो मतः ॥ २७९ ॥

बहुजन्मकृतात् पुण्याल्लभ्यतेऽसौ महागुरुः ।
लब्ध्वाऽमुं न पुनर्याति शिष्यः संसारबन्धनम् ॥ २८० ॥

एवं बहुविधा लोके गुरवः सन्ति पार्वति ।
तेषु सर्वप्रयत्नेन सेव्यो हि परमो गुरुः ॥ २८१ ॥

निषिद्धगुरुशिष्यस्तु दुष्टसङ्कल्पदूषितः ।
ब्रह्मप्रलयपर्यन्तं न पुनर्याति मर्त्यताम् ॥ २८२ ॥

एवं श्रुत्वा महादेवी महादेववचस्तथा ।
अत्यन्तविह्वलमनाः शङ्करं परिपृच्छति ॥ २८३ ॥

पार्वत्युवाच ।
नमस्ते देवदेवात्र श्रोतव्यं किञ्चिदस्ति मे ।
श्रुत्वा त्वद्वाक्यमधुना भृशं स्याद्विह्वलं मनः ॥ २८४ ॥

स्वयं मूढा मृत्युभीताः सुकृताद्विरतिं गताः ।
दैवान्निषिद्धगुरुगा यदि तेषां तु का गतिः ॥ २८५ ॥

श्री महादेव उवाच ।
शृणु तत्त्वमिदं देवि यदा स्याद्विरतो नरः ।
तदाऽसावधिकारीति प्रोच्यते श्रुतिमस्तकैः ॥ २८६ ॥

अखण्डैकरसं ब्रह्म नित्यमुक्तं निरामयम् ।
स्वस्मिन् सन्दर्शितं येन स भवेदस्यं देशिकः ॥ २८७ ॥

जलानां सागरो राजा यथा भवति पार्वति ।
गुरूणां तत्र सर्वेषां राजाऽयं परमो गुरुः ॥ २८८ ॥

मोहादिरहितः शान्तो नित्यतृप्तो निराश्रयः ।
तृणीकृतब्रह्मविष्णुवैभवः परमो गुरुः ॥ २८९ ॥

सर्वकालविदेशेषु स्वतन्त्रो निश्चलस्सुखी ।
अखण्डैकरसास्वादतृप्तो हि परमो गुरुः ॥ २९० ॥

द्वैताद्वैतविनिर्मुक्तः स्वानुभूतिप्रकाशवान् ।
अज्ञानान्धतमश्छेत्ता सर्वज्ञः परमो गुरुः ॥ २९१ ॥

यस्य दर्शनमात्रेण मनसः स्यात् प्रसन्नता ।
स्वयं भूयात् धृतिश्शान्तिः स भवेत् परमो गुरुः ॥ २९२ ॥

सिद्धिजालं समालोक्य योगिनां मन्त्रवादिनाम् ।
तुच्छाकारमनोवृत्तिः यस्यासौ परमो गुरुः ॥ २९३ ॥

स्वशरीरं शवं पश्यन् तथा स्वात्मानमद्वयम् ।
यः स्त्रीकनकमोहघ्नः स भवेत् परमो गुरुः ॥ २९४ ॥

मौनी वाग्मीति तत्त्वज्ञो द्विधाऽभूच्छृणु पार्वति ।
न कश्चिन्मौनिनां लोभो लोकेऽस्मिन्भवति प्रिये ॥ २९५ ॥

वाग्मी तूत्कटसंसारसागरोत्तारणक्षमः ।
यतोऽसौ संशयच्छेत्ता शास्त्रयुक्त्यनुभूतिभिः ॥ २९६ ॥

गुरुनामजपाद्देवि बहुजन्मार्जितान्यपि ।
पापानि विलयं यान्ति नास्ति सन्देहमण्वपि ॥ २९७ ॥

श्रीगुरोस्सदृशं दैवं श्रीगुरोसदृशः पिता ।
गुरुध्यानसमं कर्म नास्ति नास्ति महीतले ॥ २९८ ॥

कुलं धनं बलं शास्त्रं बान्धवास्सोदरा इमे ।
मरणे नोपयुज्यन्ते गुरुरेको हि तारकः ॥ २९९ ॥

कुलमेव पवित्रं स्यात् सत्यं स्वगुरुसेवया ।
तृप्ताः स्युस्सकला देवा ब्रह्माद्या गुरुतर्पणात् ॥ ३०० ॥

गुरुरेको हि जानाति स्वरूपं देवमव्ययम् ।
तद्‍ज्ञानं यत्प्रसादेन नान्यथा शास्त्रकोटिभिः ॥ ३०१ ॥

स्वरूपज्ञानशून्येन कृतमप्यकृतं भवेत् ।
तपोजपादिकं देवि सकलं बालजल्पवत् ॥ ३०२ ॥

शिवं केचिद्धरिं केचिद्विधिं केचित्तु केचन ।
शक्तिं दैवमिति ज्ञात्वा विवदन्ति वृथा नराः ॥ ३०३ ॥

न जानन्ति परं तत्त्वं गुरुदीक्षापराङ्मुखाः ।
भ्रान्ताः पशुसमा ह्येते स्वपरिज्ञानवर्जिताः ॥ ३०४ ॥

तस्मात्कैवल्यसिद्ध्यर्थं गुरुमेव भजेत्प्रिये ।
गुरुं विना न जानन्ति मूढास्तत्परमं पदम् ॥ ३०५ ॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते सर्वकर्माणि गुरोः करुणया शिवे ॥ ३०६ ॥

कृताया गुरुभक्तेस्तु वेदशास्त्रानुसारतः ।
मुच्यते पातकाद्घोरात् गुरुभक्तो विशेषतः ॥ ३०७ ॥

दुस्सङ्गं च परित्यज्य पापकर्म परित्यजेत् ।
चित्तचिह्नमिदं यस्य तस्य दीक्षा विधीयते ॥ ३०८ ॥

चित्तत्यागनियुक्तश्च क्रोधगर्वविवर्जितः ।
द्वैतभावपरित्यागी तस्य दीक्षा विधीयते ॥ ३०९ ॥

एतल्लक्षणयुक्तत्वं सर्वभूतहिते रतम् ।
निर्मलं जीवितं यस्य तस्य दीक्षा विधीयते ॥ ३१० ॥

क्रियया चान्वितं पूर्वं दीक्षाजालं निरूपितम् ।
मन्त्रदीक्षाभिधं साङ्गोपाङ्गं सर्वं शिवोदितम् ॥ ३११ ॥

क्रियया स्याद्विरहितां गुरुसायुज्यदायिनीम् ।
गुरुदीक्षां विना को वा गुरुत्वाचारपालकः ॥ ३१२ ॥

शक्तो न चापि शक्तो वा दैशिकाङ्घ्रि समाश्रयेत् ।
तस्य जन्मास्ति सफलं भोगमोक्षफलप्रदम् ॥ ३१३ ॥

अत्यन्तचित्तपक्वस्य श्रद्धाभक्तियुतस्य च ।
प्रवक्तव्यमिदं देवि ममात्मप्रीतये सदा ॥ ३१४ ॥

रहस्यं सर्वशास्त्रेषु गीताशास्त्रमिदं शिवे ।
सम्यक्परीक्ष्य वक्तव्यं साधकस्य महात्मनः ॥ ३१५ ॥

सत्कर्मपरिपाकाच्च चित्तशुद्धिश्च धीमतः ।
साधकस्यैव वक्तव्या गुरुगीता प्रयत्नतः ॥ ३१६ ॥

नास्तिकाय कृतघ्नाय दाम्भिकाय शठाय च ।
अभक्ताय विभक्ताय न वाच्येयं कदाचन ॥ ३१७ ॥

स्त्रीलोलुपाय मूर्खाय कामोपहतचेतसे ।
निन्दकाय न वक्तव्या गुरुगीता स्वभावतः ॥ ३१८ ॥

सर्वपापप्रशमनं सर्वोपद्रववारकम् ।
जन्ममृत्युहरं देवि गीताशास्त्रमिदं शिवे ॥ ३१९ ॥

श्रुतिसारमिदं देवि सर्वमुक्तं समासतः ।
नान्यथा सद्गतिः पुंसां विना गुरुपदं शिवे ॥ ३२० ॥

बहुजन्मकृतात्पापादयमर्थो न रोचते ।
जन्मबन्धनिवृत्त्यर्थं गुरुमेव भजेत्सदा ॥ ३२१ ॥

अहमेव जगत्सर्वमहमेव परं पदम् ।
एतद्‍ज्ञानं यतो भूयात्तं गुरुं प्रणमाम्यहम् ॥ ३२२ ॥

अलं विकल्पैरहमेव केवलं
मयि स्थितं विश्वमिदं चराचरम् ।
इदं रहस्यं मम येन दर्शितं
स वन्दनीयो गुरुरेव केवलम् ॥ ३२३ ॥

यस्यान्तं नादिमध्यं न हि करचरणं नामगोत्रं न सूत्रं ।
नो जातिर्नैव वर्णो न भवति पुरुषो नो नपुंसो न च स्त्री ॥ ३२४ ॥

नाकारं नो विकारं न हि जनिमरणं नास्ति पुण्यं न पापं ।
नोऽतत्त्वं तत्त्वमेकं सहजसमरसं सद्गुरुं तं नमामि ॥ ३२५ ॥

नित्याय सत्याय चिदात्मकाय
नव्याय भव्याय परात्पराय ।
शुद्धाय बुद्धाय निरञ्जनाय
नमोऽस्तु नित्यं गुरुशेखराय ॥ ३२६ ॥

सच्चिदानन्दरूपाय व्यापिने परमात्मने ।
नमः श्रीगुरुनाथाय प्रकाशानन्दमूर्तये ॥ ३२७ ॥

सत्यानन्दस्वरूपाय बोधैकसुखकारिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥ ३२८ ॥

नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ।
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ॥ ३२९ ॥

नवाय नवरूपाय परमार्थैकरूपिणे ।
सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते ॥ ३३० ॥

स्वतन्त्राय दयाक्लुप्तविग्रहाय शिवात्मने ।
परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ॥ ३३१ ॥

विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ।
प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ॥ ३३२ ॥

पुरस्तात्पार्श्वयोः पृष्ठे नमस्कुर्यादुपर्यधः ।
सदा मच्चित्तरूपेण विधेहि भवदासनम् ॥ ३३३ ॥

श्रीगुरुं परमानन्दं वन्दे ह्यानन्दविग्रहम् ।
यस्य सन्निधिमात्रेण चिदानन्दाय ते मनः ॥ ३३४ ॥

नमोऽस्तु गुरवे तुभ्यं सहजानन्दरूपिणे ।
यस्य वागमृतं हन्ति विषं संसारसञ्ज्ञकम् ॥ ३३५ ॥

नानायुक्तोपदेशेन तारिता शिष्यसन्ततिः ।
तत्कृपासारवेदेन गुरुचित्पदमच्युतम् ॥ ३३६ ॥

[**पाठभेदः
अच्युताय नमस्तुभ्यं गुरवे परमात्मने ।
स्वारामोक्तपदेच्छूनां दत्तं येनाच्युतं पदम् ॥

**]

अच्युताय नमस्तुभ्यं गुरवे परमात्मने ।
सर्वतन्त्रस्वतन्त्राय चिद्घनानन्दमूर्तये ॥ ३३७ ॥

नमोऽच्युताय गुरवेऽज्ञानध्वान्तैकभानवे ।
शिष्यसन्मार्गपटवे कृपापीयूषसिन्धवे ॥ ३३८ ॥

ओमच्युताय गुरवे शिष्यसंसारसेतवे ।
भक्तकार्यैकसिंहाय नमस्ते चित्सुखात्मने ॥ ३३९ ॥

गुरुनामसमं दैवं न पिता न च बान्धवाः ।
गुरुनामसमः स्वामी नेदृशं परमं पदम् ॥ ३४० ॥

एकाक्षरप्रदातारं यो गुरुं नैव मन्यते ।
श्वानयोनिशतं गत्वा चाण्डालेष्वपि जायते ॥ ३४१ ॥

गुरुत्यागाद्भवेन्मृत्युः मन्त्रत्यागाद्दरिद्रता ।
गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेत् ॥ ३४२ ॥

शिवक्रोधाद्गुरुस्त्राता गुरुक्रोधाच्छिवो न हि ।
तस्मात्सर्वप्रयत्नेन गुरोराज्ञां न लङ्घयेत् ॥ ३४३ ॥

संसारसागरसमुद्धरणैकमन्त्रं
ब्रह्मादिदेवमुनिपूजितसिद्धमन्त्रम् ।
दारिद्र्यदुःखभवरोगविनाशमन्त्रं
वन्दे महाभयहरं गुरुराजमन्त्रम् ॥ ३४४ ॥

सप्तकोटिमहामन्त्राश्चित्तविभ्रमकारकाः ।
एक एव महामन्त्रो गुरुरित्यक्षरद्वयम् ॥ ३४५ ॥

एवमुक्त्वा महादेवः पार्वतीं पुनरब्रवीत् ।
इदमेव परं तत्त्वं शृणु देवि सुखावहम् ॥ ३४६ ॥

गुरुतत्त्वमिदं देवि सर्वमुक्तं समासतः ।
रहस्यमिदमव्यक्तं न वदेद्यस्य कस्यचित् ॥ ३४७ ॥

न मृषा स्यादियं देवि मदुक्तिः सत्यरूपिणी ।
गुरुगीतासमं स्तोत्रं नास्ति नास्ति महीतले ॥ ३४८ ॥

गुरुगीतामिमां देवि भवदुःखविनाशिनीम् ।
गुरुदीक्षाविहीनस्य पुरतो न पठेत् क्वचित् ॥ ३४९ ॥

रहस्यमत्यन्तरहस्यमेतन्न पापिना लभ्यमिदं महेश्वरि ।
अनेकजन्मार्जितपुण्यपाकाद्गुरोस्तु तत्त्वं लभते मनुष्यः ॥ ३५० ॥

यस्य प्रसादादहमेव सर्वं
मय्येव सर्वं परिकल्पितं च ।
इत्थं विजानामि सदात्मरूपं
तस्याङ्घ्रिपद्मं प्रणतोऽस्मि नित्यम् ॥ ३५१ ॥

अज्ञानतिमिरान्धस्य विषयाक्रान्तचेतसः ।
ज्ञानप्रभाप्रदानेन प्रसादं कुरु मे प्रभो ॥ ३५२ ॥

इति श्रीस्कन्दपुराणे उत्तरखण्डे उमामहेश्वर संवादे श्री गुरुगीता समाप्त ॥

मङ्गलं –
मङ्गलं गुरुदेवाय महनीयगुणात्मने ।
सर्वलोकशरण्याय साधुरूपाय मङ्गलम् ॥


इतर श्री गुरु स्तोत्राणि पश्यतु ।


గమనిక : "శ్రీ దుర్గా స్తోత్రనిధి" పుస్తకము యొక్క ముద్రణ పూర్తి అయినది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed