Sri Gopijana Vallabha Ashtakam 2 – श्री गोपीजनवल्लभाष्टकम् – २


सरोजनेत्राय कृपायुताय मन्दारमालापरिभूषिताय ।
उदारहासाय लसन्मुखाय नमोऽस्तु गोपीजनवल्लभाय ॥ १ ॥

आनन्दनन्दादिकदायकाय बकीबकप्राणविनाशकाय ।
मृगेन्द्रहस्ताग्रजभूषणाय नमोऽस्तु गोपीजनवल्लभाय ॥ २ ॥

गोपाललीलाकृतकौतुकाय गोपालकाजीवनजीवनाय ।
भक्तैकगण्याय नवप्रियाय नमोऽस्तु गोपीजनवल्लभाय ॥ ३ ॥

मन्थानभाण्डाखिलभञ्जकाय हय्यङ्गवीनाशनरञ्जकाय ।
गोस्वादुदुग्धामृतपोषकाय नमोऽस्तु गोपीजनवल्लभाय ॥ ४ ॥

कलिन्दजाकूलकुतूहलाय किशोररूपाय मनोहराय ।
पिशङ्गवस्त्राय नरोत्तमाय नमोऽस्तु गोपीजनवल्लभाय ॥ ५ ॥

धाराधराभाय धराधराय शृङ्गारहारावलिशोभिताय ।
समग्रगर्गोक्तिसुलक्षणाय नमोऽस्तु गोपीजनवल्लभाय ॥ ६ ॥

उपेन्द्रकुम्भस्थलखण्डनाय उद्देशबृन्दावनमण्डनाय ।
हंसाय कंसासुरमर्दनाय नमोऽस्तु गोपीजनवल्लभाय ॥ ७ ॥

श्रीदेवकीसूतविमोक्षकाय दत्तोद्धवाक्रूरवरप्रदाय ।
गदासिशङ्खाब्जचतुर्भुजाय नमोऽस्तु गोपीजनवल्लभाय ॥ ८ ॥

इति श्रीहरिदासोदित श्रीगोपीजनवल्लभाष्टकम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed