Sri Gopala Ashtakam – श्री गोपालाष्टकम्


यस्माद्विश्वं जातमिदं चित्रमतर्क्यं
यस्मिन्नानन्दात्मनि नित्यं रमते वै ।
यत्रान्ते सम्याति लयं चैतदशेषं
तं गोपालं सन्ततकालं प्रति वन्दे ॥ १ ॥

यस्याज्ञानाज्जन्मजरारोगकदम्बं
ज्ञाते यस्मिन्नश्यति तत्सर्वमिहाशु ।
गत्वा यत्रायाति पुनर्नो भवभूमिं
तं गोपालं सन्ततकालं प्रति वन्दे ॥ २ ॥

तिष्ठन्नन्तर्यो यमयत्येतदजस्रं
यं कश्चिन्नो वेद जनोऽप्यात्मनि सन्तम् ।
सर्वं यस्येदं च वशे तिष्ठति विश्वं
तं गोपालं सन्ततकालं प्रति वन्दे ॥ ३ ॥

धर्मोऽधर्मेणेह तिरस्कारमुपैति
काले यस्मिन्मत्स्यमुखैश्चारुचरित्रैः ।
नानारूपैः पाति तदा योऽवनिबिम्बं
तं गोपालं सन्ततकालं प्रति वन्दे ॥ ४ ॥

प्राणायामैर्ध्वस्त समस्तेन्द्रियदोषा
रुद्ध्वा चित्तं यं हृदि पश्यन्ति समाधौ ।
ज्योतीरूपं योगिजनामोदनिमग्ना-
स्तं गोपालं सन्ततकालं प्रति वन्दे ॥ ५ ॥

भानुश्चन्द्रश्चोडुगणश्चैव हुताशो
यस्मिन्नैवाभाति तदिच्छापि कदापि ।
यद्भासा चाभाति समस्तं जगदेतत्
तं गोपालं सन्ततकालं प्रति वन्दे ॥ ६ ॥

सत्यं ज्ञानं मोदमवोचुर्निगमायं
यो ब्रह्मेन्द्रादित्यगिरीशार्चितपादः ।
शेतेऽनन्तोऽनन्ततनावम्बुनिधौ य-
स्तं गोपालं सन्ततकालं प्रति वन्दे ॥ ७ ॥

शैवाः प्राहुर्यं शिवमन्ये गणनाथं
शक्तिं चैकेऽर्कं च तथान्ये मतिभेदात् ।
नानाकारैर्भाति य एकोऽखिलशक्ति-
स्तं गोपालं सन्ततकालं प्रति वन्दे ॥ ८ ॥

श्रीमद्गोपालाष्टकमेतत्समधीते
भक्त्या नित्यं यो मनुजो वै स्थिरचेताः ।
हित्वा तूर्णं पापकलापं स समेति
पुण्यं विष्णोर्धाम यतो नैव निपातः ॥ ९ ॥

इति श्रीपरमहंसस्वामि ब्रह्मानन्दविरचितं श्री गोपालाष्टकम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed