Sri Gokula Ashtakam – श्री गोकुलाष्टकम्


श्रीमद्गोकुलसर्वस्वं श्रीमद्गोकुलमण्डनम् ।
श्रीमद्गोकुलदृक्तारा श्रीमद्गोकुलजीवनम् ॥ १ ॥

श्रीमद्गोकुलमात्रेशः श्रीमद्गोकुलपालकः ।
श्रीमद्गोकुललीलाब्धिः श्रीमद्गोकुलसंश्रयः ॥ २ ॥

श्रीमद्गोकुलजीवात्मा श्रीमद्गोकुलमानसः ।
श्रीमद्गोकुलदुःखघ्नं श्रीमद्गोकुलवीक्षितः ॥ ३ ॥

श्रीमद्गोकुलसौन्दर्यं श्रीमद्गोकुलसत्फलं ।
श्रीमद्गोकुलगोप्राणः श्रीमद्गोकुलकामदः ॥ ४ ॥

श्रीमद्गोकुलराकेशः श्रीमद्गोकुलतारकः ।
श्रीमद्गोकुलपद्मालिः श्रीमद्गोकुलसंस्तुतः ॥ ५ ॥

श्रीमद्गोकुलसङ्गीतः श्रीमद्गोकुललास्यकृत् ।
श्रीमद्गोकुलभावात्मा श्रीमद्गोकुलपोषकः ॥ ६ ॥

श्रीमद्गोकुलहृत्स्थानः श्रीमद्गोकुलसंवृतः ।
श्रीमद्गोकुलदृक्पुष्पः श्रीमद्गोकुलमोदितः ॥ ७ ॥

श्रीमद्गोकुलगोपीशः श्रीमद्गोकुललालितः ।
श्रीमद्गोकुलभोग्यश्रीः श्रीमद्गोकुलसर्वकृत् ॥ ८ ॥

इमानि श्रीगोकुलेशनामानि वदने मम ।
वसन्तु सन्ततं चैव लीला च हृदये सदा ॥ ९ ॥

इति श्रीमद्विठ्ठलेशाचार्यकृतं श्री गोकुलाष्टकम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed