Sri Datta Ashtakam 1 – श्री दत्ताष्टकम् 1


गुरुमूर्तिं चिदाकाशं सच्चिदानन्दविग्रहम् ।
निर्विकल्पं निराबाधं दत्तमानन्दमाश्रये ॥ १ ॥

योगातीतं गुणातीतं सर्वरक्षाकरं विभुम् ।
सर्वदुःखहरं देवं दत्तमानन्दमाश्रये ॥ २ ॥

अवधूतं सदाध्यानम् औदुम्बरसुशोभितम् ।
अनघाप्रिय विभुं देवं दत्तमानन्दमाश्रये ॥ ३ ॥

निराकारं निराभासं ब्रह्मविष्णुशिवात्मकम् ।
निर्गुणं निष्कलं शान्तं दत्तमानन्दमाश्रये ॥ ४ ॥

अनसूयासुतं देवं अत्रिवंशकुलोद्भवम् ।
दिगम्बरं महातेजं दत्तमानन्दमाश्रये ॥ ५ ॥

सह्याद्रिवासिनं दत्तं आत्मज्ञानप्रदायकम् ।
अखण्डमण्डलाकारं दत्तमानन्दमाश्रये ॥ ६ ॥

पञ्चयज्ञप्रियं देवं पञ्चरूपसुशोभितम् ।
गुरुपरम्परं वन्दे दत्तमानन्दमाश्रये ॥ ७ ॥

दत्तमानन्दाष्टकं यः पठेत् सर्वविद्या जयं लभेत् ।
दत्तानुग्रहफलं प्राप्तं दत्तमानन्दमाश्रये ॥ ८ ॥

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।
सर्वसिद्धिमवाप्नोति श्रीदत्तः शरणं मम ॥

इति श्री दत्ताष्टकम् ॥


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed