Sri Chandra Ashtavimsathi nama stotram – श्री चन्द्र अष्टाविंशति नाम स्तोत्रम्


चन्द्रस्य शृणु नामानि शुभदानि महीपते ।
यानि शृत्वा नरो दुःखान्मुच्यते नात्र संशयः ॥ १ ॥

सुधाकरो विधुः सोमो ग्लौरब्जः कुमुदप्रियः ।
लोकप्रियः शुभ्रभानुश्चन्द्रमा रोहिणीपतिः ॥ २ ॥

शशी हिमकरो राजा द्विजराजो निशाकरः ।
आत्रेय इन्दुः शीतांशुरोषधीशः कलानिधिः ॥ ३ ॥

जैवातृको रमाभ्राता क्षीरोदार्णवसम्भवः ।
नक्षत्रनायकः शम्भुश्शिरश्चूडामणिर्विभुः ॥ ४ ॥

तापहर्ता नभोदीपो नामान्येतानि यः पठेत् ।
प्रत्यहं भक्तिसम्युक्तस्तस्य पीडा विनश्यति ॥ ५ ॥

तद्दिने च पठेद्यस्तु लभेत्सर्वं समीहितम् ।
ग्रहादीनां च सर्वेषां भवेच्चन्द्रबलं सदा ॥ ६ ॥

इति श्री चन्द्र अष्टाविंशतिनाम स्तोत्रम् ॥


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed