Sri Budha Kavacham – श्री बुध कवचम्


अस्य श्रीबुध कवचस्तोत्रस्य कात्यायन ऋषिः, अनुष्टुप् छन्दः, बुधो देवता, यं बीजं, क्लीं शक्तिः, ऊं कीलकं, बुधग्रह प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

करन्यासः –
बां अङ्गुष्ठाभ्यां नमः ।
बीं तर्जनीभ्यां नमः ।
बूं मध्यमाभ्यां नमः ।
बैं अनामिकाभ्यां नमः ।
बौं कनिष्ठिकाभ्यां नमः ।
बः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
बां हृदयाय नमः ।
बीं शिरसे स्वाहा ।
बूं शिखायै वषट् ।
बैं कवचाय हुम् ।
बौं नेत्रत्रयाय वौषट् ।
बः अस्त्राय फट् ।

ध्यानम् –
बुधः पुस्तकहस्तश्च कुङ्कुमस्य समद्युतिः ।
बुधं ज्ञानमयं सर्वं कुङ्कुमाभं चतुर्भुजम् ॥ १ ॥

खड्गशूलगदापाणिं वरदाङ्कितमुद्रितम् ।
पीताम्बरधरं देवं पीतमाल्यानुलेपनम् ॥ २ ॥

वज्राद्याभरणं चैव किरीट मकुटोज्ज्वलम् ।
श्वेताश्वरथमारूढं मेरुं चैव प्रदक्षिणम् ॥ ३ ॥

अथ कवचम् –
बुधः पातु शिरोदेशं सौम्यः पातु च फालकम् ।
नेत्रे ज्ञानमयः पातु श्रुती पातु विधूद्भवः ॥ १ ॥

घ्राणं गन्धधरः पातु भुजौ पुस्तकभूषितः ।
मध्यं पातु सुराराध्यः पातु नाभिं खगेश्वरः ॥ २ ॥

कटिं कालात्मजः पातु ऊरू पातु सुरेश्वरः ।
जानुनी रोहिणीसूनुः पातु जङ्घे फलप्रदः ॥ ३ ॥

पादौ बाणासनः पातु पातु सौम्योऽखिलं वपुः ।
एषोऽपि कवचः पुण्यः सर्वोपद्रवशान्तिदः ॥ ४ ॥

सर्वरोगप्रशमनः सर्वदुःखनिवारकः ।
आयुरारोग्यशुभदः पुत्रपौत्रप्रवर्धनः ॥ ५ ॥

यः पठेत्कवचं दिव्यं शृणुयाद्वा समाहितः ।
सर्वान्कामानवाप्नोति दीर्घमायुश्च विन्दतिः ॥ ६ ॥

इति श्रीब्रह्मवैवर्तपुराणे श्री बुध कवचम् ।


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed