Sri Brihaspati Kavacham – श्री बृहस्पति कवचम्


अस्य श्रीबृहस्पति कवचस्तोत्रमन्त्रस्य ईश्वर ऋषिः, अनुष्टुप् छन्दः, बृहस्पतिर्देवता, गं बीजं, श्रीं शक्तिः, क्लीं कीलकं, बृहस्पति पीडाप्रशमनार्थे बृहस्पति प्रसादसिद्ध्यर्थे जपे विनियोगः ।

करन्यासः –
गां अङ्गुष्ठाभ्यां नमः ।
गीं तर्जनीभ्यां नमः ।
गूं मध्यमाभ्यां नमः ।
गैं अनामिकाभ्यां नमः ।
गौं कनिष्ठिकाभ्यां नमः ।
गः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
गां हृदयाय नमः ।
गीं शिरसे स्वाहा ।
गूं शिखायै वषट् ।
गैं कवचाय हुम् ।
गौं नेत्रत्रयाय वौषट् ।
गः अस्त्राय फट् ।

ध्यानम् –
अभीष्टफलदं देवं सर्वज्ञं सुरपूजितम् ।
अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ॥ १ ॥

अथ कवचम् –
बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।
कर्णौ सुरगुरुः पातु नेत्रे मेऽभीष्टदायकः ॥ २ ॥

जिह्वां पातु सुराचार्यो नासां मे वेदपारगः ।
मुखं मे पातु सर्वज्ञो कण्ठं मे देवतागुरुः ॥ ३ ॥

भुजावाङ्गिरसः पातु करौ पातु शुभप्रदः ।
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥ ४ ॥

नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः ।
कटिं पातु जगद्वन्द्य ऊरू मे पातु वाक्पतिः ॥ ५ ॥

जानुजङ्घे सुराचार्यो पादौ विश्वात्मकस्तथा ।
अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः ॥ ६ ॥

इत्येतत्कवचं दिव्यं त्रिसन्ध्यं यः पठेन्नरः ।
सर्वान् कामानवाप्नोति सर्वत्र विजयी भवेत् ॥ ७ ॥

इति श्रीब्रह्मयामलोक्तं श्री बृहस्पति कवचम् ।


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed