Sri Apaduddharaka Hanuman Stotram – श्री आपदुद्धारक हनुमत् स्तोत्रम्


ओं अस्य श्री आपदुद्धारक हनुमत् स्तोत्र महामन्त्र कवचस्य, विभीषण ऋषिः, हनुमान् देवता, सर्वापदुद्धारक श्रीहनुमत्प्रसादेन मम सर्वापन्निवृत्त्यर्थे, सर्वकार्यानुकूल्य सिद्ध्यर्थे जपे विनियोगः ।

ध्यानम् ।
वामे करे वैरिभिदं वहन्तं
शैलं परे शृङ्खलहारिटङ्कम् ।
दधानमच्छच्छवियज्ञसूत्रं
भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ १ ॥

संवीतकौपीन मुदञ्चिताङ्गुलिं
समुज्ज्वलन्मौञ्जिमथोपवीतिनम् ।
सकुण्डलं लम्बिशिखासमावृतं
तमाञ्जनेयं शरणं प्रपद्ये ॥ २ ॥

आपन्नाखिललोकार्तिहारिणे श्रीहनूमते ।
अकस्मादागतोत्पात नाशनाय नमो नमः ॥ ३ ॥

सीतावियुक्तश्रीरामशोकदुःखभयापह ।
तापत्रितयसंहारिन् आञ्जनेय नमोऽस्तु ते ॥ ४ ॥

आधिव्याधि महामारी ग्रहपीडापहारिणे ।
प्राणापहर्त्रेदैत्यानां रामप्राणात्मने नमः ॥ ५ ॥

संसारसागरावर्त कर्तव्यभ्रान्तचेतसाम् ।
शरणागतमर्त्यानां शरण्याय नमोऽस्तु ते ॥ ६ ॥

वज्रदेहाय कालाग्निरुद्रायाऽमिततेजसे ।
ब्रह्मास्त्रस्तंभनायास्मै नमः श्रीरुद्रमूर्तये ॥ ७ ॥

रामेष्टं करुणापूर्णं हनूमन्तं भयापहम् ।
शत्रुनाशकरं भीमं सर्वाभीष्टप्रदायकम् ॥ ८ ॥

कारागृहे प्रयाणे वा सङ्ग्रामे शत्रुसङ्कटे ।
जले स्थले तथाऽऽकाशे वाहनेषु चतुष्पथे ॥ ९ ॥

गजसिंह महाव्याघ्र चोर भीषण कानने ।
ये स्मरन्ति हनूमन्तं तेषां नास्ति विपत् क्वचित् ॥ १० ॥

सर्ववानरमुख्यानां प्राणभूतात्मने नमः ।
शरण्याय वरेण्याय वायुपुत्राय ते नमः ॥ ११ ॥

प्रदोषे वा प्रभाते वा ये स्मरन्त्यञ्जनासुतम् ।
अर्थसिद्धिं जयं कीर्तिं प्राप्नुवन्ति न संशयः ॥ १२ ॥

जप्त्वा स्तोत्रमिदं मन्त्रं प्रतिवारं पठेन्नरः ।
राजस्थाने सभास्थाने प्राप्ते वादे लभेज्जयम् ॥ १३ ॥

विभीषणकृतं स्तोत्रम् यः पठेत् प्रयतो नरः ।
सर्वापद्भ्यो विमुच्येत नाऽत्र कार्या विचारणा ॥ १४ ॥

मन्त्रः ।
मर्कटेश महोत्साह सर्वशोकनिवारक ।
शत्रून् संहर मां रक्ष श्रियं दापय भो हरे ॥ १५

इति विभीषणकृतं सर्वापदुद्धारक श्रीहनुमत् स्तोत्रम् ।


इतर श्री हनुमान् स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed