Sri Angaraka (Mangal) Kavacham – श्री अङ्गारक कवचम्


अस्य श्रीअङ्गारक कवचस्तोत्र मन्त्रस्य विरूपाक्ष ऋषिः, अनुष्टुप् छन्दः, अङ्गारको देवता, अं बीजं, गं शक्तिः, रं कीलकं, मम अङ्गारकग्रह प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

करन्यासः –
आं अङ्गुष्ठाभ्यां नमः ।
ईं तर्जनीभ्यां नमः ।
ऊं मध्यमाभ्यां नमः ।
ऐं अनामिकाभ्यां नमः ।
औं कनिष्ठिकाभ्यां नमः ।
अः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
आं हृदयाय नमः ।
ईं शिरसे स्वाहा ।
ऊं शिखायै वषट् ।
ऐं कवचाय हुम् ।
औं नेत्रत्रयाय वौषट् ।
अः अस्त्राय फट् ।

ध्यानम् –
नमाम्यङ्गारकं देवं रक्ताङ्गं वरभूषणं
जानुस्थं वामहस्ताभ्यां चापेषुवरपाणिनम् ।
चतुर्भुजं मेषवाहं वरदं वसुधाप्रियं
शक्तिशूलगदाखड्गं ज्वालपुञ्जोर्ध्वकेशकम् ॥

मेरुं प्रदक्षिणं कृत्वा सर्वदेवात्मसिद्धिदम् ।

अथ कवचम् –
अङ्गारकः शिरो रक्षेन्मुखं वै धरणीसुतः ।
कर्णौ रक्ताम्बरः पातु नेत्रे मे रक्तलोचनः ॥ १ ॥

नासिकां मे शक्तिधरः कण्ठं मे पातु भौमकः ।
भुजौ तु रक्तमाली च हस्तौ शूलधरस्तथा ॥ २ ॥

चतुर्भुजो मे हृदयं कुक्षिं रोगापहारकः ।
कटिं मे भूमिजः पातु ऊरू पातु गदाधरः ॥ ३ ॥

जानुजङ्घे कुजः पातु पादौ भौमः सदा मम ।
सर्वाणि यानि चाङ्गानि रक्षेन्मे मेषवाहनः ॥ ४ ॥

य इदं कवचं दिव्यं सर्वशत्रुविनाशनम् ।
भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम् ॥ ५ ॥

सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम् ।
भुक्तिमुक्तिप्रदं नॄणां सर्वसौभाग्यवर्धनम् ॥ ६ ॥

ऋणबन्धनमुक्तिर्वै सत्यमेव न संशयः ।
स्तोत्रपाठस्तु कर्तव्यो देवस्याग्रे समाहितः ॥ ७ ॥

रक्तगन्धाक्षतैः पुष्पैर्धूपदीपगुडोदनैः ।
मङ्गलं पूजयित्वा तु मङ्गलेऽहनि सर्वदा ॥ ८ ॥

ब्राह्मणान्भोजयेत्पश्चाच्चतुरो द्वादशाथवा ।
अनेन विधिना यस्तु कृत्वा व्रतमनुत्तमम् ॥ ९ ॥

व्रतं तदेवं कुर्वीत सप्तवारेषु वा यदि ।
तेषां शस्त्राण्युत्पलानि वह्निः स्याच्चन्द्रशीतलः ॥ १० ॥

न चैनं व्यथयन्त्यस्मान्मृगपक्षिगजादयः ।
महान्धतमसे प्राप्रे मार्ताण्डस्योदयादिव ।
विलयं यान्ति पापानि शतजन्मार्जितानि वै ॥ ११ ॥

इति श्री अङ्गारक कवचम् ।


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed