Sri Ahobala Narasimha Stotram – श्री अहोबल नृसिंह स्तोत्रम्


 

लक्ष्मीकटाक्षसरसीरुहराजहंसं
पक्षीन्द्रशैलभवनं भवनाशमीशं ।
गोक्षीरसार घनसारपटीरवर्णं
वन्दे कृपानिधिमहोबलनारसिंहम् ॥ १ ॥

आद्यन्तशून्यमजमव्ययमप्रमेयं
आदित्यचन्द्रशिखिलोचनमादिदेवं ।
अब्जामुखाब्जमदलोलुपमत्तभृङ्गं
वन्दे कृपानिधिमहोबलनारसिंहम् ॥ २ ॥

कोटीरकोटिघटितोज्ज्वलकान्तिकान्तं
केयूरहारमणिकुण्डलमण्डिताङ्गं ।
चूडाग्ररञ्जितसुधाकरपूर्णबिम्बं
वन्दे कृपानिधिमहोबलनारसिंहम् ॥ ३ ॥

वराहवामननृसिंहसुभाग्यमीशं
क्रीडाविलोलहृदयं विबुधेन्द्रवन्द्यं ।
हंसात्मकं परमहंसमनोविहारं
वन्दे कृपानिधिमहोबलनारसिंहम् ॥ ४ ॥

मन्दाकिनीजननहेतुपदारविन्दं
बृन्दारकालयविनोदनमुज्ज्वलाङ्गं ।
मन्दारपुष्पतुलसीरचिताङ्घ्रिपद्मं
वन्दे कृपानिधिमहोबलनारसिंहम् ॥ ५ ॥

तारुण्यकृष्णतुलसीदलधामरम्यं
धात्रीरमाभिरमणं महनीयरूपं ।
मन्त्राधिराजमथदानवमानभृङ्गं
वन्दे कृपानिधिमहोबलनारसिंहम् ॥ ६ ॥

इति अहोबलनृसिंह स्तोतम् ॥


ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed