Sri Adi Shankaracharya Ashtottara Shatanama Stotram – श्री आदिशङ्कराचार्य अष्टोत्तरशतनाम स्तोत्रम्


ध्यानम् ।
कैलासाचल मध्यस्थं कामिताभीष्टदायकम् ।
ब्रह्मादि-प्रार्थना-प्राप्त-दिव्यमानुष-विग्रहम् ॥

भक्तानुग्रहणैकान्त-शान्त-स्वान्त-समुज्ज्वलम् ।
सम्यज्ञं सम्यमीन्द्राणां सार्वभौमं जगद्गुरुम् ॥

किङ्करीभूतभक्तैनः पङ्कजातविशोषणम् ।
ध्यायामि शङ्कराचार्यं सर्वलोकैकशङ्करम् ॥

स्तोत्रं ।
श्रीशङ्कराचार्यवर्यो ब्रह्मानन्दप्रदायकः ।
अज्ञानतिमिरादित्यः सुज्ञानाम्बुधिचन्द्रमा ॥ १ ॥

वर्णाश्रमप्रतिष्ठाता श्रीमान् मुक्तिप्रदायकः ।
शिष्योपदेशनिरतो भक्ताभीष्टप्रदायकः ॥ २ ॥

सूक्ष्मतत्त्वरहस्यज्ञः कार्याकार्यप्रबोधकः ।
ज्ञानमुद्राञ्चितकरः शिष्यहृत्तापहारकः ॥ ३ ॥

परिव्राजाश्रमोद्धर्ता सर्वतन्त्रस्वतन्त्रधीः ।
अद्वैतस्थापनाचार्यः साक्षाच्चङ्कररूपधृक् ॥ ४ ॥

षण्मतस्थापनाचार्यस्त्रयीमार्गप्रकाशकः ।
वेदवेदान्ततत्त्वज्ञो दुर्वादिमतखण्डनः ॥ ५ ॥

वैराग्यनिरतः शान्तः संसारार्णवतारकः ।
प्रसन्नवदनाम्भोजः परमार्थप्रकाशकः ॥ ६ ॥

पुराणस्मृतिसारज्ञो नित्यतृप्तो महच्चुचिः ।
नित्यानन्दो निरातङ्को निस्सङ्गो निर्मलात्मकः ॥ ७ ॥

निर्ममो निरहङ्कारो विश्ववन्द्यपदाम्बुजः ।
सत्त्वप्रधानः सद्भावः सङ्ख्यातीतगुणोज्ज्वलः ॥ ८ ॥

अनघः सारहृदयः सुधीः सारस्वतप्रदः ।
सत्यात्मा पुण्यशीलश्च साङ्ख्ययोगविचक्षणः ॥ ९ ॥

तपोराशिर्महातेजा गुणत्रयविभागवित् ।
कलिघ्नः कालकर्मज्ञस्तमोगुणनिवारकः ॥ १० ॥

भगवान् भारतीजेता शारदाह्वानपण्डितः ।
धर्माधर्मविभागज्ञो लक्ष्यभेदप्रदर्शकः ॥ ११ ॥

नादबिन्दुकलाभिज्ञो योगिहृत्पद्मभास्करः ।
अतीन्द्रियज्ञाननिधिर्नित्यानित्यविवेकवान् ॥ १२ ॥

चिदानन्दश्चिन्मयात्मा परकायप्रवेशकृत् ।
अमानुषचरित्राढ्यः क्षेमदायी क्षमाकरः ॥ १३ ॥

भव्यो भद्रप्रदो भूरिमहिमा विश्वरञ्जकः ।
स्वप्रकाशः सदाधारो विश्वबन्धुः शुभोदयः ॥ १४ ॥

विशालकीर्तिर्वागीशः सर्वलोकहितोत्सुकः ।
कैलासयात्रासम्प्राप्तचन्द्रमौलिप्रपूजकः ॥ १५ ॥

काञ्च्यां श्रीचक्रराजाख्ययन्त्रस्थापनदीक्षितः ।
श्रीचक्रात्मकताटङ्कतोषिताम्बामनोरथः ॥ १६ ॥

श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकः ।
चतुर्दिक्चतुराम्नायप्रतिष्ठाता महामतिः ॥ १७ ॥

द्विसप्ततिमतोच्चेत्ता सर्वदिग्विजयप्रभुः ।
काषायवसनोपेतो भस्मोद्धूलितविग्रहः ॥ १८ ॥

ज्ञानात्मकैकदण्डाढ्यः कमण्डलुलसत्करः ।
गुरुभूमण्डलाचार्यो भगवत्पादसञ्ज्ञकः ॥ १९ ॥

व्याससन्दर्शनप्रीतो ऋष्यशृङ्गपुरेश्वरः ।
सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकः ॥ २० ॥

चतुष्षष्टिकलाभिज्ञो ब्रह्मराक्षसमोक्षदः ।
श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुतः ॥ २१ ॥

तोटकाचार्यसम्पूज्यो पद्मपादार्चिताङ्घ्रिकः ।
हस्तामलकयोगीन्द्रब्रह्मज्ञानप्रदायकः ॥ २२ ॥

सुरेश्वराख्यसच्चिष्यसन्न्यासाश्रमदायकः ।
नृसिंहभक्तः सद्रत्नगर्भहेरम्बपूजकः ॥ २३ ॥

व्याख्यासिंहासनाधीशो जगत्पूज्यो जगद्गुरुः ॥ २४ ॥

इति श्री शङ्कराचार्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥


इतर श्री गुरु स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed