Shraddha Suktam (Yajurveda) – श्रद्धा सूक्तम् (यजुर्वेदीय)


(तै।ब्रा।२।८।८।६)

श्र॒द्धाया॒ऽग्निः समि॑ध्यते ।
श्र॒द्धया॑ विन्दते ह॒विः ।
श्र॒द्धां भग॑स्य मू॒र्धनि॑ ।
वच॒साऽऽवे॑दयामसि ।
प्रि॒यग्ग् श्र॑द्धे॒ दद॑तः ।
प्रि॒यग्ग् श्र॑द्धे॒ दिदा॑सतः ।
प्रि॒यं भो॒जेषु॒ यज्व॑सु ॥

इ॒दं म॑ उदि॒तं कृ॑धि ।
यथा॑ दे॒वा असु॑रेषु ।
श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे ।
ए॒वं भो॒जेषु॒ यज्व॑सु ।
अ॒स्माक॑मुदि॒तं कृ॑धि ।
श्र॒द्धां दे॑वा॒ यज॑मानाः ।
वा॒युगो॑पा॒ उपा॑सते ।
श्र॒द्धाग्ं हृ॑द॒य्य॑याऽऽकू᳚त्या ।
श्र॒द्धया॑ हूयते ह॒विः ।
श्र॒द्धां प्रा॒तर्ह॑वामहे ॥

श्र॒द्धां म॒ध्यन्दि॑नं॒ परि॑ ।
श्र॒द्धाग्ं सूर्य॑स्य नि॒मृचि॑ ।
श्रद्धे॒ श्रद्धा॑पये॒ह मा᳚ ।
श्र॒द्धा दे॒वानधि॑वस्ते ।
श्र॒द्धा विश्व॑मि॒दं जग॑त् ।
श्र॒द्धां काम॑स्य मा॒तरम्᳚ ।
ह॒विषा॑ वर्धयामसि ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed