Nyasa Dasakam – न्यास दशकम्


श्रीमान् वेङ्कटनाथार्यः कवितार्किक केसरी ।
वेदान्ताचार्य वर्यो मे सन्निधत्तां सदा हृदि ॥

अहं मद्रक्षणभरो मद्रक्षण फलं तथा ।
न मम श्रीपतेरेवेत्यात्मानं निक्षिपेत् बुधः ॥ १ ॥

न्यस्य़ाम्यकिञ्चनः श्रीमन् अनुकूलोन्यवर्जितः ।
विश्वास प्रार्थनापूर्वम् आत्मरक्षाभरं त्वयि ॥ २ ॥

स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरं ।
स्वदत्त स्वधिया स्वार्थं स्वस्मिन् न्यस्यति मां स्वयम् ॥ ३ ॥

श्रीमन् अभीष्ट वरद त्वामस्मि शरणं गतः ।
एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥ ४ ॥

त्वच्छेषत्वे स्थिरधियं त्वत् प्राप्त्येक प्रयोजनं ।
निषिद्ध काम्यरहितं कुरु मां नित्य किङ्करम् ॥ ५ ॥

देवी भूषण हेत्यादि जुष्टस्य भगवंस्तव ।
नित्यं निरपराधेषु कैङ्कर्येषु नियुङ्क्ष्व माम् ॥ ६ ॥

मां मदीयं च निखिलं चेतनाऽचेतनात्मकं ।
स्वकैङ्कर्योपकरणं वरद स्वीकुरु स्वयम् ॥ ७ ॥

त्वदेक रक्ष्यस्य मम त्वमेव करुणाकर ।
न प्रवर्तय पापानि प्रवृत्तानि निवर्तय ॥ ८ ॥

अकृत्यानां च करणं कृत्यानां वर्जनं च मे ।
क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ॥ ९ ॥

श्रीमान् नियत पञ्चाङ्गं मद्रक्षण भरार्पणं ।
अचीकरत् स्वयं स्वस्मिन् अतोहमिह निर्भरः ॥ १० ॥

संसारावर्तवेग प्रशमन शुभदृग्देशिक प्रेक्षितोहं
सन्त्यक्तोन्यैरुपायैरनुचितचरितेश्वद्य शान्ताभिसन्धिः ।
निश्शङ्क स्तत्त्वदृष्ट्वा निरवधिकदयं प्राप्य संरक्षकं
त्वां न्यस्यत्वत्पादपद्मे वरद निजभरं निर्भरो निर्भयोस्मि ॥ ११ ॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्य़ासदशकम् |


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed