Navagraha Mangala Sloka (Navagraha Mangalashtakam) – नवग्रह मङ्गल श्लोकाः (मङ्गलाष्टकम्)


भास्वान् काश्यपगोत्रजोऽरुणरुचिर्यः सिंहपोऽर्कः समि-
-त्षट्त्रिस्थोऽदशशोभनो गुरुशशी भौमाः सुमित्राः सदा ।
शुक्रो मन्दरिपुः कलिङ्गजनपश्चाग्नीश्वरौ देवते
मध्येवर्तुलपूर्वदिग्दिनकरः कुर्यात्सदा मङ्गलम् ॥ १ ॥

चन्द्रः कर्कटकप्रभुः सितनिभश्चात्रेयगोत्रोद्भव-
-श्चात्रेयश्चतुरश्रवारुणमुखश्चापे उमाधीश्वरः ।
षट्सप्ताग्नि दशैकशोभनफलो नोरिर्बुधार्कौप्रियौ
स्वामी यामुनजश्च पर्णसमिधः कुर्यात्सदा मङ्गलम् ॥ २ ॥

भौमो दक्षिणदिक्त्रिकोणयमदिग्विन्ध्येश्वरः खादिरः
स्वामी वृश्चिकमेषयोस्तु सुगुरुश्चार्कः शशी सौहृदः ।
ज्ञोऽरिः षट्त्रिफलप्रदश्च वसुधास्कन्दौ क्रमाद्देवते
भारद्वाजकुलोद्वहोऽरुणरुचिः कुर्यात्सदा मङ्गलम् ॥ ३ ॥

सौम्यः पीत उदङ्मुखः समिदपामार्गोऽत्रिगोत्रोद्भवो
बाणेशानदिशः सुहृद्रविसुतः शान्तः सुतः शीतगोः ।
कन्यायुग्मपतिर्दशाष्टचतुरः षण्णेत्रगः शोभनो
विष्णुर्देव्यधिदेवते मगधपः कुर्यात्सदा मङ्गलम् ॥ ४ ॥

जीवश्चाङ्गिरगोत्रजोत्तरमुखो दीर्घोत्तराशास्थितः
पीतोऽश्वत्थसमिच्च सिन्धुजनितश्चापोऽथ मीनाधिपः ।
सूर्येन्दुक्षितिजाः प्रिया बुधसितौ शत्रू समाश्चापरे
सप्तद्वे नवपञ्चमे शुभकरः कुर्यात्सदा मङ्गलम् ॥ ५ ॥

शुक्रो भार्गवगोत्रजः सितरुचिः पूर्वामुखः पूर्वदिक्
पाञ्चालस्थ वृषस्तुलाधिपमहाराष्ट्राधिपौदुम्बरः ।
इन्द्राणीमघवा बुधश्च रविजो मित्रोर्क चन्द्रावरी
षष्ठत्रिर्दशवर्जिते भृगुसुतः कुर्यात्सदा मङ्गलम् ॥ ६ ॥

मन्दः कृष्णनिभः सपश्चिममुखः सौराष्ट्रपः काश्यपः
स्वामी नक्रसुकुम्भयोर्बुधसितौ मित्रौ कुजेन्दू द्विषौ ।
स्थानं पश्चिमदिक् प्रजापतियमौ देवौ धनुर्धारकः
षट्त्रिस्थः शुभकृच्छनी रविसुतः कुर्यात्सदा मङ्गलम् ॥ ७ ॥

राहुः सिंहलदेशपोऽपि सतमः कृष्णाङ्गशूर्पासनो
यः पैठीनसगोत्रसम्भवसमिद्दूर्वामुखो दक्षिणः ।
यः सर्पः पशुदैवतोऽखिलगतः सूर्यग्रहे छादकः
षट्त्रिस्थः शुभकृच्च सिंहकसुतः कुर्यात्सदा मङ्गलम् ॥ ८ ॥

केतुर्जैमिनिगोत्रजः कुशसमिद्वायव्यकोणेस्थित-
-श्चित्राङ्कध्वजलाञ्छनो हि भगवान् यो दक्षिणाशामुखः ।
ब्रह्मा चैव तु चित्रगुप्तपतिमान् प्रीत्याधिदेवः सदा
षट्त्रिस्थः शुभकृच्च बर्बरपतिः कुर्यात्सदा मङ्गलम् ॥ ९ ॥

इति नवग्रह मङ्गल स्तोत्रम् ।


इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed