Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं ओं नमः प्रणवार्थार्थ स्थूलसूक्ष्म क्षराक्षर
व्यक्ताव्यक्त कलातीत ओङ्काराय नमो नमः ॥ १ ॥
न नमो देवादिदेवाय देहसञ्चारहेतवे
दैत्यसङ्घविनाशाय नकाराय नमो नमः ॥ २ ॥
मो मोहनं विश्वरूपं च शिष्टाचारसुपोषितम्
मोहविध्वंसकं वन्दे मोकाराय नमो नमः ॥ ३ ॥
ना नारायणाय नव्याय नरसिंहाय नामिने
नादाय नादिने तुभ्यं नाकाराय नमो नमः ॥ ४ ॥
रा रामचन्द्रं रघुपतिं पित्राज्ञापरिपालकम्
कौसल्यातनयं वन्दे राकाराय नमो नमः ॥ ५ ॥
य यज्ञाय यज्ञगम्य़ाय यज्ञरक्षाकराय च
यज्ञाङ्गरूपिणे तुभ्यं यकाराय नमो नमः ॥ ६ ॥
णा णाकारं लोकविख्यातं नानाजन्मफलप्रदम्
नानाभीष्टप्रदं वन्दे णाकाराय नमो नमः ॥ ७ ॥
य यज्ञकर्त्रे यज्ञभर्त्रे यज्ञरूपाय ते नमः
सुज्ञानगोचरायाऽस्तु यकाराय नमो नमः ॥ ८ ॥
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.