Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओङ्काररूपिणी देवि विशुद्धसत्त्वरूपिणी ॥
देवानां जननी त्वं हि प्रसन्ना भव सुन्दरि ॥ १ ॥
तन्मात्रञ्चैव भूतानि तव वक्षस्थलं स्मृतम् ।
त्वमेव वेदगम्या तु प्रसन्ना भव सुन्दरि ॥ २ ॥
देवदानवगन्धर्वयक्षराक्षसकिन्नरः ।
स्तूयसे त्वं सदा लक्ष्मी प्रसन्ना भव सुन्दरि ॥ ३ ॥
लोकातीता द्वैतातीता समस्तभूतवेष्टिता ।
विद्वज्जननि कीर्तिता च प्रसन्ना भव सुन्दरि ॥ ४ ॥
परिपूर्णा सदा लक्ष्मि त्रात्री तु शरणार्थिषु ।
विश्वाद्या विश्वकर्त्री च प्रसन्ना भव सुन्दरि ॥ ५ ॥
ब्रह्मरूपा च सावित्री त्वद्दीप्त्या भासते जगत् ।
विश्वरूपा वरेण्या च प्रसन्ना भव सुन्दरि ॥ ६ ॥
क्षित्यप्तेजोमरूद्धयोमपञ्चभूतस्वरूपिणी ।
बन्धादेः कारणं त्वं हि प्रसन्ना भव सुन्दरि ॥ ७ ॥
महेशे त्वं हेमवती कमला केशवेऽपि च ।
ब्रह्मणः प्रेयसी त्वं हि प्रसन्ना भव सुन्दरि ॥ ८ ॥
चण्डी दुर्गा कालिका च कौशिकी सिद्धिरूपिणी ।
योगिनी योगगम्या च प्रसन्ना भव सुन्दरि ॥ ९ ॥
बाल्ये च बालिका त्वं हि यौवने युवतीति च ।
स्थविरे वृद्धरूपा च प्रसन्ना भव सुन्दरि ॥ १० ॥
गुणमयी गुणातीता आद्या विद्या सनातनी ।
महत्तत्त्वादिसम्युक्ता प्रसन्ना भव सुन्दरि ॥ ११ ॥
तपस्विनी तपःसिद्धि स्वर्गसिद्धिस्तदर्थिषु ।
चिन्मयी प्रकृतिस्त्वं तु प्रसन्ना भव सुन्दरि ॥ १२ ॥
त्वमादिर्जगतां देवि त्वमेव स्थितिकारणम् ।
त्वमन्ते निधनस्थानं स्वेच्छाचारा त्वमेवहि ॥ १३ ॥
चराचराणां भूतानां बहिरन्तस्त्वमेव हि ।
व्याप्यवाक्यरूपेण त्वं भासि भक्तवत्सले ॥ १४ ॥
त्वन्मायया हृतज्ञाना नष्टात्मानो विचेतसः ।
गतागतं प्रपद्यन्ते पापपुण्यवशात्सदा ॥ १५ ॥
तावत्सत्यं जगद्भाति शुक्तिकारजतं यथा ।
यावन्न ज्ञायते ज्ञानं चेतसा नान्वगामिनी ॥ १६ ॥
त्वज्ज्ञानात्तु सदा युक्तः पुत्रदारगृहादिषु ।
रमन्ते विषयान्सर्वानन्ते दुखप्रदं ध्रुवम् ॥ १७ ॥
त्वदाज्ञया तु देवेशि गगने सूर्यमण्डलम् ।
चन्द्रश्च भ्रमते नित्यं प्रसन्ना भव सुन्दरि ॥ १८ ॥
ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया ।
व्यक्ताऽव्यक्त च देवेशि प्रसन्ना भव सुन्दरि ॥ १९ ॥
अचला सर्वगा त्वं हि मायातीता महेश्वरि ।
शिवात्मा शाश्वता नित्या प्रसन्ना भव सुन्दरि ॥ २० ॥
सर्वकार्यनियन्त्री च सर्वभूतेश्वरी ।
अनन्ता निष्काला त्वं हि प्रसन्ना भवसुन्दरि ॥ २१ ॥
सर्वेश्वरी सर्ववन्द्या अचिन्त्या परमात्मिका ।
भुक्तिमुक्तिप्रदा त्वं हि प्रसन्ना भव सुन्दरि ॥ २२ ॥
ब्रह्माणी ब्रह्मलोके त्वं वैकुण्ठे सर्वमङ्गला ।
इन्द्राणी अमरावत्यामम्बिका वरूणालये ॥ २३ ॥
यमालये कालरूपा कुबेरभवने शुभा ।
महानन्दाग्निकोणे च प्रसन्ना भव सुन्दरि ॥ २४ ॥
नैरृत्यां रक्तदन्ता त्वं वायव्यां मृगवाहिनी ।
पाताले वैष्णवीरूपा प्रसन्ना भव सुन्दरि ॥ २५ ॥
सुरसा त्वं मणिद्वीपे ऐशान्यां शूलधारिणी ।
भद्रकाली च लङ्कायां प्रसन्ना भव सुन्दरि ॥ २६ ॥
रामेश्वरी सेतुबन्धे सिंहले देवमोहिनी ।
विमला त्वं च श्रीक्षेत्रे प्रसन्ना भव सुन्दरि ॥ २७ ॥
कालिका त्वं कालिघाटे कामाख्या नीलपर्वते ।
विरजा ओड्रदेशे त्वं प्रसन्ना भव सुन्दरि ॥ २८ ॥
वाराणस्यामन्नपूर्णा अयोध्यायां महेश्वरी ।
गयासुरी गयाधाम्नि प्रसन्ना भव सुन्दरि ॥ २९ ॥
भद्रकाली कुरुक्षेत्रे त्वं च कात्यायनी व्रजे ।
महामाया द्वारकायां प्रसन्ना भव सुन्दरि ॥ ३० ॥
क्षुधा त्वं सर्वजीवानां वेला च सागरस्य हि ।
महेश्वरी मथुरायां च प्रसन्ना भव सुन्दरि ॥ ३१ ॥
रामस्य जानकी त्वं च शिवस्य मनमोहिनी ।
दक्षस्य दुहिता चैव प्रसन्ना भव सुन्दरि ॥ ३२ ॥
विष्णुभक्तिप्रदां त्वं च कंसासुरविनाशिनी ।
रावणनाशिनीं चैव प्रसन्ना भव सुन्दरि ॥ ३३ ॥
फलश्रुति ॥
लक्ष्मीस्तोत्रमिदं पुण्यं यः पठेद्भक्तिसम्युतः ।
सर्वज्वरभयं नश्येत्सर्वव्याधिनिवारणम् ॥
इदं स्तोत्रं महापुण्यमापदुद्धारकारणम् ।
त्रिसन्ध्यमेकसन्ध्यं वा यः पठेत्सततं नरः ॥
मुच्यते सर्वपापेभ्यो तथा तु सर्वसङ्कटात् ।
मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले ॥
समस्तं च तथा चैकं यः पठेद्भक्तित्परः ।
स सर्वदुष्करं तीर्थ्वा लभते परमां गतिम् ॥
सुखदं मोक्षदं स्तोत्रं यः पठेद्भक्तिसम्युतः ।
स तु कोटितीर्थफलं प्राप्नोति नात्र संशयः ॥
एका देवी तु कमला यस्मिन्तुष्टा भवेत्सदा ।
तस्याऽसाध्यं तु देवेशि नास्तिकिञ्चिज्जगत्त्रये ॥
पठनादपि स्तोत्रस्य किं न सिद्ध्यति भूतले ।
तस्मात्स्तोत्रवरं प्रोक्तं सत्यं ब्रूहि पार्वति ॥
॥ इति श्रीकमला स्तोत्रं सम्पूर्णम् ॥
Report mistakes and corrections in Stotranidhi content.