Garbha Stuti (Deva Krutham) – गर्भ स्तुतिः (देव कृतम्)


देवा ऊचुः –
जगद्योनिरयोनिस्त्वमनन्तोऽव्यय एव च ।
ज्योतिस्स्वरूपो ह्यनिशः सगुणो निर्गुणो महान् ॥ १ ॥

भक्तानुरोधात्साकारो निराकारो निरङ्कुशः ।
निर्व्यूहो निखिलाधारो निःशङ्को निरुपद्रवः ॥ २ ॥

निरुपाधिश्च निर्लिप्तो निरीहो निधनान्तकः ।
स्वात्मारामः पूर्णकामोऽनिमिषो नित्य एव च ॥ ३ ॥

स्वेच्छामयः सर्वहेतुः सर्वः सर्वगुणाश्रयः ।
सर्वदो दुःखदो दुर्गो दुर्जनान्तक एव च ॥ ४ ॥

सुभगो दुर्भगो वाग्मी दुराराध्यो दुरत्ययः ।
वेदहेतुश्च वेदश्च वेदाङ्गो वेदविद्विभुः ॥ ५ ॥

इत्येवमुक्त्वा देवाश्च प्रणम्राश्च मुहुर्मुहुः ।
हर्षाश्रुलोचनाः सर्वे ववृषुः कुसुमानि च ॥ ६ ॥

द्विचत्वारिंशन्नामानि प्रातरुत्थाय यः पठेत् ।
दृढां भक्तिं हरेर्दास्यं लभते वाञ्छितं फलम् ॥ ७ ॥

इत्येवं स्तवनं कृत्वा देवास्ते स्वालयं ययुः ।
बभूव जलवृष्टिश्च निश्चेष्टा मथुरापुरी ॥ ८ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे देवकृत गर्भस्तुतिः ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed