Ayushya Suktam – आयुष्य सूक्तम्


यो ब्रह्मा ब्रह्मण उ॑ज्जहा॒र प्रा॒णैः शि॒रः कृत्तिवासा᳚: पिना॒की ।
ईशानो देवः स न आयु॑र्दधा॒तु॒ तस्मै जुहोमि हविषा॑ घृते॒न ॥ १ ॥

विभ्राजमानः सरिर॑स्य म॒ध्या॒-द्रो॒च॒मा॒नो घर्मरुचि॑र्य आ॒गात् ।
स मृत्युपाशानपनु॑द्य घो॒रा॒नि॒हा॒यु॒षे॒णो घृतम॑त्तु दे॒वः ॥ २ ॥

ब्रह्मज्योति-र्ब्रह्म-पत्नी॑षु ग॒र्भं॒ य॒मा॒द॒धात् पुरुरूपं॑ जय॒न्तम् ।
सुवर्णरम्भग्रह-म॑र्कम॒र्च्यं॒ त॒मा॒यु॒षे वर्धयामो॑ घृते॒न ॥ ३ ॥

श्रियं लक्ष्मी-मौबला-मम्बिकां॒ गां॒ ष॒ष्ठीं च या॒मिन्द्रसेने᳚त्युदा॒हुः ।
तां विद्यां ब्रह्मयोनिग्ं॑ सरू॒पा॒मि॒हा॒यु॒षे तर्पयामो॑ घृते॒न ॥ ४ ॥

दाक्षायण्यः सर्वयोन्य॑: स यो॒न्य॒: स॒ह॒स्र॒शो विश्वरूपा॑ विरू॒पाः ।
ससूनवः सपतय॑: सयू॒थ्या॒ आ॒यु॒षे॒णो घृतमिदं॑ जुष॒न्ताम् ॥ ५ ॥

दिव्या गणा बहुरूपा᳚: पुरा॒णा॒ आयुश्छिदो नः प्रमथ्न॑न्तु वी॒रान् ।
तेभ्यो जुहोमि बहुधा॑ घृते॒न॒ मा॒ न॒: प्र॒जाग्ं रीरिषो मो॑त वी॒रान् ॥ ६ ॥

ए॒क॒: पु॒र॒स्तात् य इदं॑ बभू॒व॒ यतो बभूव भुवन॑स्य गो॒पाः ।
यमप्येति भुवनग्ं सा᳚म्परा॒ये॒ स नो हविर्घृत-मिहायुषे᳚त्तु दे॒वः ॥ ७ ॥

व॒सू॒न् रुद्रा॑-नादि॒त्यान् मरुतो॑ऽथ सा॒ध्या॒न् ऋ॑भून् य॒क्षा॒न् गन्धर्वाग्‍श्च पितॄग्‍श्च वि॒श्वान् ।
भृगून् सर्पाग्‍श्चाङ्गिरसो॑ऽथ स॒र्वा॒न् घृ॒त॒ग्ं हु॒त्वा स्वायुष्या महया॑म श॒श्वत् ॥ ८ ॥

विष्णो॒ त्वं नो॒ अन्त॑म॒श्शर्म॑यच्छ सहन्त्य ।
प्रते॒धारा॑ मधु॒श्चुत॒ उथ्सं॑ दुह्रते॒ अक्षि॑तम् ॥

॥ ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥


इतर वेद सूक्तानि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Ayushya Suktam – आयुष्य सूक्तम्

  1. Excellent compilation of Veda mantras without any mistakes in Script or Swaras. thanks a lot.

Leave a Reply

error: Not allowed