Amrita Sanjeevani Dhanvantari Stotram – अमृतसञ्जीवन धन्वन्तरि स्तोत्रम्


अथापरमहं वक्ष्येऽमृतसञ्जीवनं स्तवम् ।
यस्यानुष्ठानमात्रेण मृत्युर्दूरात्पलायते ॥ १ ॥

असाध्याः कष्टसाध्याश्च महारोगा भयङ्कराः ।
शीघ्रं नश्यन्ति पठनादस्यायुश्च प्रवर्धते ॥ २ ॥

शाकिनीडाकिनीदोषाः कुदृष्टिग्रहशत्रुजाः ।
प्रेतवेतालयक्षोत्था बाधा नश्यन्ति चाखिलाः ॥ ३ ॥

दुरितानि समस्तानि नानाजन्मोद्भवानि च ।
संसर्गजविकाराणि विलीयन्तेऽस्य पाठतः ॥ ४ ॥

सर्वोपद्रवनाशाय सर्वबाधाप्रशान्तये ।
आयुः प्रवृद्धये चैतत् स्तोत्रं परममद्भुतम् ॥ ५ ॥

बालग्रहाभिभूतानां बालानां सुखदायकम् ।
सर्वारिष्टहरं चैतद्बलपुष्टिकरं परम् ॥ ६ ॥

बालानां जीवनायैतत् स्तोत्रं दिव्यं सुधोपमम् ।
मृतवत्सत्वहरणं चिरञ्जीवित्वकारकम् ॥ ७ ॥

महारोगाभिभूतानां भयव्याकुलितात्मनाम् ।
सर्वाधिव्याधिहरणं भयघ्नममृतोपमम् ॥ ८ ॥

अल्पमृत्युश्चापमृत्युः पाठादस्यः प्रणश्यति ।
जलाऽग्निविषशस्त्रारि न हि शृङ्गि भयं तथा ॥ ९ ॥

गर्भरक्षाकरं स्त्रीणां बालानां जीवनप्रदम् ।
महारोगहरं नॄणामल्पमृत्युहरं परम् ॥ १० ॥

बाला वृद्धाश्च तरुणा नरा नार्यश्च दुःखिताः ।
भवन्ति सुखिनः पाठादस्य लोके चिरायुषः ॥ ११ ॥

अस्मात्परतरं नास्ति जीवनोपाय ऐहिकः ।
तस्मात् सर्वप्रयत्नेन पाठमस्य समाचरेत् ॥ १२ ॥

अयुतावृत्तिकं वाथ सहस्रावृत्तिकं तथा ।
तदर्धं वा तदर्धं वा पठेदेतच्च भक्तितः ॥ १३ ॥

कलशे विष्णुमाराध्य दीपं प्रज्वाल्य यत्नतः ।
सायं प्रातश्च विधिवत् स्तोत्रमेतत् पठेत् सुधीः ॥ १४ ॥

सर्पिषा हविषा वाऽपि सम्यावेनाथ भक्तितः ।
दशांशमानतो होमं कुर्यात् सर्वार्थसिद्धये ॥ १५ ॥

अथ स्तोत्रम् ।
नमो नमो विश्वविभावनाय
नमो नमो लोकसुखप्रदाय ।
नमो नमो विश्वसृजेश्वराय
नमो नमो मुक्तिवरप्रदाय ॥ १ ॥

नमो नमस्तेऽखिललोकपाय
नमो नमस्तेऽखिलकामदाय ।
नमो नमस्तेऽखिलकारणाय
नमो नमस्तेऽखिलरक्षकाय ॥ २ ॥

नमो नमस्ते सकलार्तिहर्त्रे
नमो नमस्ते विरुजः प्रकर्त्रे ।
नमो नमस्तेऽखिलविश्वधर्त्रे
नमो नमस्तेऽखिललोकभर्त्रे ॥ ३ ॥

सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते
सर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते ।
विश्वं संह्रितये तदेव निखिलं रुद्रस्वरूपेण ते
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ४ ॥

यो धन्वन्तरिसञ्ज्ञया निगदितः क्षीराब्धितो निःसृतो
हस्ताभ्यां जनजीवनाय कलशं पीयूषपूर्णं दधत् ।
आयुर्वेदमरीरचज्जनरुजां नाशाय स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ५ ॥

स्त्रीरूपं वरभूषणाम्बरधरं त्रैलोक्यसम्मोहनं
कृत्वा पाययति स्म यः सुरगणान् पीयूषमत्युत्तमम् ।
चक्रे दैत्यगणान् सुधाविरहितान् संमोह्य स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ ६ ॥

चाक्षुषोदधिसम्प्लाव भूवेदप झषाकृते ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ ७ ॥

पृष्ठमन्दरनिर्घूर्णनिद्राक्ष कमठाकृते ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ ८ ॥

याञ्चाच्छलबलित्रासमुक्तनिर्जर वामन ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ ९ ॥

धरोद्धार हिरण्याक्षघात क्रोडाकृते प्रभो ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ १० ॥

भक्तत्रासविनाशात्तचण्डत्व नृहरे विभो ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ ११ ॥

क्षत्रियारण्यसञ्छेदकुठारकररैणुक ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ १२ ॥

रक्षोराजप्रतापाब्धिशोषणाशुग राघव ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ १३ ॥

भूभारासुरसन्दोहकालाग्ने रुक्मिणीपते ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ १४ ॥

वेदमार्गरतानर्हविभ्रान्त्यै बुद्धरूपधृक् ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ १५ ॥

कलिवर्णाश्रमास्पष्टधर्मर्ध्यै कल्किरूपभाक् ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ १६ ॥

असाध्याः कष्टसाध्या ये महारोगा भयङ्कराः ।
छिन्धि तानाशु चक्रेण चिरं जीवय जीवय ॥ १७ ॥

अल्पमृत्युं चापमृत्युं महोत्पातानुपद्रवान् ।
भिन्धि भिन्धि गदाघातैश्चिरं जीवय जीवय ॥ १८ ॥

अहं न जाने किमपि त्वदन्यत्
समाश्रये नाथ पदाम्बुजं ते ।
कुरुष्व तद्यन्मनसीप्सितं ते
सुकर्मणा केन समक्षमीयाम् ॥ १९ ॥

त्वमेव तातो जननी त्वमेव
त्वमेव नाथश्च त्वमेव बन्धुः ।
विद्याधनागारकुलं त्वमेव
त्वमेव सर्वं मम देवदेव ॥ २० ॥

न मेऽपराधं प्रविलोकय प्रभो-
-ऽपराधसिन्धोश्च दयानिधिस्त्वम् ।
तातेन दुष्टोऽपि सुतः सुरक्षते
दयालुता तेऽवतु सर्वदाऽस्मान् ॥ २१ ॥

अहह विस्मर नाथ न मां सदा
करुणया निजया परिपूरितः ।
भुवि भवान् यदि मे न हि रक्षकः
कथमहो मम जीवनमत्र वै ॥ २२ ॥

दह दह कृपया त्वं व्याधिजालं विशालं
हर हर करवालं चाल्पमृत्योः करालम् ।
निजजनपरिपालं त्वां भजे भावयालं
कुरु कुरु बहुकालं जीवितं मे सदाऽलम् ॥ २३ ॥

न यत्र धर्माचरणं न जानं
व्रतं न योगो न च विष्णुचर्चा ।
न पितृगोविप्रवरामरार्चा
स्वल्पायुषस्तत्र जना भवन्ति ॥ २४ ॥

अथ मन्त्रम् ।
क्लीं श्रीं क्लीं श्रीं नमो भगवते जनार्दनाय सकल दुरितानि नाशय नाशय ।
क्ष्रौं आरोग्यं कुरु कुरु । ह्रीं दीर्घमायुर्देहि देहि स्वाहा ॥

फलश्रुतिः ।
अस्य धारणतो जापादल्पमृत्युः प्रशाम्यति ।
गर्भरक्षाकरं स्त्रीणां बालानां जीवनं परम् ॥ १ ॥

शतं पञ्चाशतं शक्त्याऽथवा पञ्चाधिविंशतिम् ।
पुस्तकानां द्विजेभ्यस्तु दद्याद्दीर्घायुषाप्तये ॥ २ ॥

भूर्जपत्रे विलिख्येदं कण्ठे वा बाहुमूलके ।
सन्धारयेद्गर्भरक्षा बालरक्षा च जायते ॥ ३ ॥

सर्वे रोगा विनश्यन्ति सर्वा बाधाः प्रशाम्यति ।
कुदृष्टिजं भयं नश्येत् तथा प्रेतादिजं भयम् ॥ ४ ॥

मया कथितमेतत्तेऽमृतसञ्जीवनं परम् ।
अल्पमृत्युहरं स्तोत्रं मृतवत्सत्वनाशनम् ॥ ५ ॥

इति सुदर्शनसंहितोक्तं अमृतसञ्जीवन धन्वन्तरि स्तोत्रम् ॥


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Amrita Sanjeevani Dhanvantari Stotram – अमृतसञ्जीवन धन्वन्तरि स्तोत्रम्

  1. सभी देवों के स्त्रोत्र की संख्या में बढ़ाओ

Leave a Reply

error: Not allowed